सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२२
विक्रमोर्वशीय

  राजा-(ललाटे मणिं सन्निवेश्य )

   स्फुरता विच्छुरितमिदं रागेण मणेर्ललाटनिहितस्य ।
   श्रियमुद्वहति मुखं ते बालातपरक्तकमलस्य ॥ ७२ ॥

  उर्वशी-पिअंवद! महन्तो क्खु कालो अम्हाणं पइट्ठाणदो निग्गदाणं । कदाइ असूइस्सन्ति    पकिदिओ अम्हाणं । ता एहि । गच्छम्ह ।

   [प्रियंवद ! महान् खलु कालः आवयोः प्रतिष्ठानान्निर्गतयोः
   कदाचिदसूयिष्यन्ति प्रकृतय आवाभ्याम् । तदेहि गच्छावः ।]

(इत्युत्तिष्ठतः)

  राजा-यदाह भवती।

  उर्वशी-अध कंघं महाराओ गन्तुं इच्छदि ?

  [अथ कथं महाराजो गन्तुमिच्छति ?]


एवाहं एतदवस्था पुनरपि रमणीयरमणीरूपं दधाना संवृत्तास्मि जाताऽस्मि । अस्य मणेरेवायं प्रभावो यदहं शापमुक्ता भूत्वा लतारूपं परित्यज्य ललनारूपं पुनरपि प्राप्तेत्यर्थः।

 राजा-(ललाटे मणि सन्निवेश्य धृत्वा)।

 स्फुरतेति-तव ललाटे कपाले निहितस्य सन्निवेशितस्य मणेः स्फुरता समन्ततः प्रसरता रागेण लालिम्ना विच्छुरितं कर्बुरितमतः सुशोभितं तव मुखं बालेन कोमलेन आतपेन रक्तस्स्य कमलस्य श्रियं शोभामुद्वहति धारयति । भाले धृतस्यास्य सङ्गममणेरितस्ततः प्रसृमरया रक्तभासा लसितं ते ललितं मुखं रक्तकमलस्य शोभामुदहति इति भावः ।

 अत्र बालातपरक्तस्य कमलस्य शोभायाः मुखे समारोपान्निदर्शनालङ्कारः । तल्लक्षणं यथा काव्यप्रकाशे "निदर्शना-अभवन्वस्तुसम्बन्धः उपमापरिकल्पकः" इति । आर्या जातिः ॥ ७२ ॥

 उर्वशी-प्रियंवद मधुरालापिन् ! प्रतिष्ठानादावासात् राज्याद्वा निर्गतयोः प्रस्थितयोरावयोः महान् खलु कालः सञ्जातः । कदाचित् प्रकृतयः प्रजाः आवाभ्यां असूयिष्यन्ति दोषं दास्यन्तीत्यर्थः । प्रतिष्ठानं हि प्रयागस्य पूर्वतीरे वर्तमाना विक्रमराजधानी । तत् अत एव एहि ! गच्छावः ।

(इति उत्तिष्ठतः)

 राजा यदाह भवती तदेव सम्यगिति शेषः ।

 उर्वशी -अथ कथं कीदृशेन यानेन गन्तुमिच्छति महाराजः । उर्वश्याः अप्सरस्त्वात् देवतायोनित्वात्तस्मिन्नेव क्षणे यत्किमपि सम्पादयितुं सामर्थ्यं विद्यते ।