पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१६
विक्रमोर्वशीये

 (परिक्रम्यावलोक्य च) अये! किं नु खलु कुसुमरहितामपि लतामिमां पश्यता मया रतिरुपलभ्यते । अथवा स्थाने मम मनो रमते । इयं हि----

तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः
 शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।
चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते
 चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥६६॥


मात्मनः मम शिखामणिं चूडामणिं करिष्यामि त्वां मस्तके धारयिष्यामीति भावः। ईश्वरः शिवः बालमिन्दुमिव । यथा शिवेन नवेन्दुः स्वचूडामणित्वेन कल्पितस्तथैव यदि त्वं तनुमध्यया तया विरहितस्य मम प्रियया सह समागमं कारयिष्यसि तदा अहं त्वां मम शिरसि निधास्ये । शिरसि धारणं परमादरसूचकम् । सङ्गमायेति तादर्थ्ये चतुर्थी । अत्रोपमा । वंशस्थवृत्तम् ॥ ६५॥

 (परिक्रम्य अवलोक्य च ) अये ! किं नु खलु किमस्य कारणं यत् कुसुमैः रहितां हीनामपि इमां पुरोवर्तिनी लतां पश्यता प्रेक्षमाणेन मया रतिः प्रीतिरुपलभ्यते । मणिं प्राप्य लतारूपे परिणतायां उर्वश्यां प्रीतिः समुत्पद्यते । किन्तु लतापरिणाममजानन् आह-नाहं जाने किमस्य कारणं यदहं लतामेनां पश्यामि मुदितश्च जात इति । अथवा स्थाने युक्तमेव तत् यन्मे मनः अत्र रमते । तस्या लताया रूपं वर्णयति-इयं हि लता कीदृशी इत्याह-

 तन्वीति-तन्वीयं लता एतादृशी लक्ष्यते यत् सा कोपना मम प्रिया एव चरणपतितमपि मामवमत्य पश्चात्तापयुतेव भवेत् । पश्चात्तापयुतायामुर्वश्यां लता चास्यां सामान्यं दर्शयति-

 चण्डी यदा सानुतापा स्यात्तदा बाष्पाणामुद्गमः स्यात्तेन च अधरोऽपि धौतः स्यात् । तथैव लतायामपि । मेघजलं वर्षाजलं तेन आर्द्राः पल्लवा यस्याः सा तस्या भावः वृष्ट्या आर्द्रपल्लववतीत्वात् अश्रुभिः बाष्पैर्धौतः क्षालितः अधरः यस्याः सा तादृशी प्रतिभाति । परश्च अनुतापचिह्नमिदं यतः प्रथमं अनुतापवती ललना भूषणानि न परिधत्ते । अत्र च लतासु कुसुमोद्गमस्य समयाभावे तदभावात् आभरणरहितत्वं कल्प्यते । स्वस्य कालः पुष्पोद्गमसमयः तस्य विरहादभावात् विश्रान्तः पुष्पाणामुद्गमः प्रादुर्भावः यस्याः सा कुसुमरहिता लता आभरणैः अलङ्कारैः शून्या इव प्रतिभाति । पुनश्च सानुतापा रमणी बद्धमौना भवति । इह च लतापक्षे कुसुमानां विरहात् मधुकरा नायान्ति तेन तेषां गुञ्जनं न, अत एव भ्रमरगुञ्जनराहित्येन इदं प्रतीयते यत्सा अनुतापवशात् बद्धमौनेव स्यात् । मधुलिहां दिरेहाणां शब्दैः गुञ्जनैर्विना चिन्तया पश्चात्तापेन मौनं आस्थिता एव दृश्यते ।