पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१५
चतुर्थोऽङ्कः

 राजा-(ऊर्ध्वमवलोक्य) को मामनुशास्ति । ( विलोक्य) कथं भगवान् मृगराजधारी । भगवन् !अनुगृहीतोऽहममुनोपदेशेन ।

 (मणिमादाय ) हंहो सङ्गममणे!

तया वियुक्तस्य निमग्नमध्यया
 भविष्यसि त्वं यदि सङ्गमाय मे ।
ततः करिष्यामि भवन्तमात्मनः
 शिखामणिं बालमिवेन्दुमीश्वरः ।। ६५ ।।


 राजा-(ऊर्ध्वं आकाशे अवलोक्य) को माम् अनुशास्ति मणिमादातुमाज्ञापयति । ( विलोक्य ) कथं भगवान् मृगराजधारी चन्द्रः । राज्ञश्चन्द्रवंशित्वात् तत्रभवांश्चन्द्रः एवानुशासनपरः इति ज्ञेयम् । भगवन् ! अमुना मणिग्रहणमयेनोपदेशेन अनुगृहीतः विरहात् उद्धृतोऽस्मि ।

 अत्रेदं सहृदयैरूह्यं यद्राजा उर्वशीसनाथो यदा विहारार्थं प्रक्रान्तः तदा तावद्वर्षासमयः आसीत् अत एव नवजलधरेति पये चतुर्थाङ्कस्यारम्भे एव पटुधारासारस्य वर्णनं, पुनश्च मनस्तापवृद्धिहेतोः जलधरकालस्य प्रत्यादेशोद्योगो नायकस्य, विद्युल्लेखावतामम्बुवाहानां गगने नैगमत्वेन विहारवर्णनं मेघाभिवृष्टसिकतानां वनस्थलीषु सद्भावः, शिखिनां पयोदोन्मुखत्वं, राजहंसानां मानसाय गमनप्रक्रमः परं च शिलोच्चयानुयोगे "मेघोदयोऽपि शतह्रदाशून्यः संवृत्तः" इति ‘प्रकटनं, नवमेघकालस्य दशदिक्षु व्याप्तत्वमित्यादिभिः समस्तोपकरणैः अतिघनघटासमाच्छादितं गगनं प्रावृषि तत्परिसरे तदानीमासीत् इति मनागपि न शङ्क्यते, एवं सत्यपि तत्रभवतः कवेः मणिमुद्ग्रहीतुं “पूषा व्यवसित इवालम्बितकरः" इति भगवदादित्यस्य स्फुटकिरणकरप्रपातस्य भृशं असमञ्जसत्वे दुर्वारे सत्यपि परस्मिन्नेव मुहूर्ते कुतोऽयं मणिरिति जिज्ञासयोर्ध्वालोकनव्यग्रस्य नायकस्य तादृशमेघघटाकृष्णायितव्योम्नि आदित्यदीप्तौ च "कथं भगवान् मृगराजधारीति" चन्द्रमसः स्फुटालोकस्तावद्दुर्घट एवेति पूर्वप्रोक्तस्य ख्यातविरोधात्मकस्याप्राकृतिकत्वदोषस्य वारणाय नायकस्य विरहोन्मादगह्वरं, कर्वेवा नियतितन्त्रापारतन्त्र्यदुर्गं शरणमतीव दुर्बलमिति ॥

(मणिमादाय)

 अत्र मणिग्रहणप्रसङ्गे प्रेयसीप्राप्तिरूपबीजस्योपसंह्रियमाणप्रयोजनस्य प्रोत्साहकत्वात्प्ररोचना नाम विमर्शसन्ध्यङ्गम् ॥ यल्लक्षणं दर्पणे "प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी ॥"

 हंहो सङ्गममणे!

 तयेति-नितरां मग्नः निमग्नः कृशो मध्यप्रदेशः यस्याः सा; तनुमध्यया तया वियुक्तस्य मे यदि त्वं सङ्गमाय समागमफलाय भविष्यसि ततः भवन्त-