सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१४
विक्रमोर्वशीये

(द्विपदिकयोपसृत्य गृहीत्वात्मगतम्)

मन्दारपुष्पैरधिवासितायां यस्याः शिखायामयमर्पणीयः।
सैव प्रिया सम्प्रति दुर्लभा मे नैवैनमश्रूपहतं करोमि ॥ ६३ ॥

(इत्युत्सृजति)

(नेपथ्ये)

वत्स! गृह्यताम् गृह्यताम्

सङ्गमनीयो मणिरिह शैलसुताचरणरागयोनिरयम् ।
आवहति धार्यमाणः सङ्गममाशु प्रियजनेन ॥ ६४ ॥


बाष्पैरश्रुभिराकुले प्लुते अवरुद्धे नयने यस्य तादृशः दुःखित अत एव क्षामितं म्लानं वदनमाननम् यस्य एतादृशः गजपतिः गहने वने परिभ्रमति ॥ ६२॥

 (द्विपदिकया उपसृत्य तं मणिं गृहीत्वा आत्मगतम् मनस्येवाह )

 मन्दारेति-मम प्रियायाः मन्दारः कल्पतरुः तस्य पुष्पैः प्रसूनैः अधिवासितायां सुगन्धीकृतायां शिखायां केशपाशे अयं मणिरर्पणीयः निवेशनयोग्यः सा एव मे प्रिया सम्प्रति अधुना दुर्लभा कृच्छ्रेण लभ्या । यस्याः कृते अहमेनमुग्द्रहीतुं कामये सा एव मत्पार्श्वे नास्ति तदा तद्ग्रहणं निरर्थकम् तेन च एनं मणिं अश्रूपहतं अश्रुबिन्दुदूषितं नैव करोमि । प्रियाया असान्निध्यात् अस्य ग्रहणं व्यर्थं सत् केवलं बाष्पैर्दूषणायैव भवेदिति मत्वा नाहं गृह्णामीति विचार्यते। अत्र प्रियालाभरूपकार्यस्यात्ययात् “विरोधनं" नाम विमर्शसन्ध्यङ्गमुक्तं भवति ।

 इन्द्रवजा वृत्तम् । स्यादिन्द्रवज्रा यदि तौ जगौ गः इति लक्षणात् ॥ ६३ ॥

 इति विचार्य मणिमुत्सृजति ।

 नेपथ्ये-अदृष्टभाषितम्-तल्लक्षणं यथा प्रथमाङ्के प्रोकम् ।

 वत्स! गृह्यतां गृह्यतामयं मणिः ।

 सङ्गमनीयेति -इह अस्मिन् स्थले शैलसुतायाः गिरिजायाः चरणयोः रागः लालिमा एव योनिः कारणं यस्य स अयं सङ्गमनीयाख्यः मणिरस्ति । यः मणिः धार्यमाणः शरीरे धार्यते चेत् प्रियजनेन प्रणयिजनेन सङ्गमं समागममाशु शीघ्रमेवावहति विदधाति । पार्वतीचरणसरसिजसमुत्पन्नोऽयं मणिः; एनं गृहाण, धारिते ह्यस्मिन् दयितजनेन सत्वरमेव समागमो भवतीति अस्य गुणः । त्वञ्च विरही, गृहाणैनम् । इति नेपथ्यभाषितम् । अस्य मणेः संयोगेन नायको नायिकया सङ्गमिष्यते । अस्यैव योगं तावत्कविवरः सूचितवान् आदिमे पद्ये यथा "स्विस्भक्तियोगसुलभेति" अध्येतृभिः स्मर्तव्यम् । आर्या, जातिः ॥ ६४ ॥ .