पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०६
विक्रमोर्वशीये

व्यावर्त्तयितुं, नाटकीयं दारुणं वातावरणं शमयितुमुपस्थापितम् । तदृश्यनिरीक्षणानुरोधेन नायकस्यान्यत्राकृष्टं मनः तत्रस्थं पतदुत्पतन्तं पयःपूरं पारावारं परिकल्पते यस्तु पयोदसदृशैः परिणाहवद्भिरङ्गैः नृत्यति । नेदमत्र चित्रं यन्नायकः विप्रलम्भे वल्लभायाः गवेषणे बहुशो विप्रलब्धः वनेऽचेतनानपि चेतनानिव मानवीयभावैः सदृशानुभूतिमतः परिगणय्य पयःपूरे नर्तकभावमारोपयति । नृत्यन्तं जलनिधिं दृष्ट्वा समुत्पन्ना मनोव्यावृत्तिः राज्ञो मनो यावत् शास्त्येव तावदेव पूर्वदिक्पवनाहतत्वं नायकं तदानीन्तनं प्रावृट्कालं प्रति समाकर्षति । यश्च प्रावृट्समयः सर्वत्र व्याप्तः सन् पयःपूरस्य वृत्तव्यापारे पारिपार्श्विकः सन् समस्तोपकरणैः सनाथः तत्र प्रादुर्भवन् वरीवर्त्तते । अवधेयमत्र कियच्चमत्कारीदं यत्कविना कालस्यावस्तरणं दिशोऽवसारणमानेनोपकल्पितम् (How poetic it is to speak of Time in terms of Space !)। परञ्चेह कवेस्तावत् क्लृप्तिरीदृशी यत् यदि जलधिर्नर्तकस्तदा तमनु तालप्रदायित्वेन तत्सहायकेन कालेनापि नूनं भवितव्यम् यतः इदं विश्वजनीनं ज्ञानं यत् प्रावृण्महिम्नवार्णत्वस्योच्छलत्प्रवाहवत्त्वं यद्गर्भश्च तस्मिन् नर्तकात्वारोपणम् । इदमपि वक्तुं नानुचितं यन्नवमेघकालस्य तालमनुसरन्नेव पयःपूरो नृत्यति (cf. Time is timed) अत एव नायकः काले चेतनत्वमारोपयति यथा कालः हंसरथाङ्गदिभिर्विभूषितः करिमकरादिभिरावृतः स्वहस्तैस्तालप्रदानं कुर्वन् समस्ता दिशोऽभिव्याप्नुवन् अवस्तृणाति ।

 अत एव पूर्वदिगिति चरणद्वयं चर्चरीति प्रतिपादितं भिन्नं, हंसरथाङ्गेति तद्भिन्नमेव । तयाख्यानं यथा-

 पूर्वदिगिति-

 पूर्वा या दिक् ततो वहमानः पवनः वायुः तेनाहतः व्याघातवशादुत्पातितः कल्लोलः महोर्मिः स एव उद्गतः उच्चैरास्फालितो बाहुर्यस्य सः (विशेषणमिदं नर्तकत्वारोपे हेतुः) एतादृशः जलनिधिनाथः महान् पयःपूरः पुरतो वीक्ष्यमाणः मेघाङ्गैः मेघवत् परिणाहिभिः अङ्गैरूर्मिरूपैः सललितं रमणीयं (नायकस्य मनसः आकर्षकत्वात् ) नृत्यति इति । अत्र नर्तकत्वारोपात् रूपकालङ्कारः ॥ ५३ अ॥

 पयोधेः नर्तनकर्मणि कश्च सहायः नर्तकत्वं घटयति य इति जिज्ञासायामाह-

 हंसरहंगेति-नवमेघकालः प्रावृट्समयः दशदिशो रुद्ध्वा सर्वत्राभिव्याप्तः अवस्तृणाति प्रसरति-स च कथमुदधिनर्त्तकस्य साहाय्यमेतीत्याह त्रिभिर्विशेषणैः-हंसा रथाङ्गाश्च त एव शङ्खाः कुङ्कुमादिलेपाश्च तैः कृतानि आभरणानि समुद्रस्याभूषणानि येन तादृशः नवमेघकालः, (नवमेघकालः एवं हंसरथाङ्गादीन् जलधेरुपकण्ठं गन्तुं प्रोत्साहयति ।) यथा नर्तकसहकारी नर्तकस्य शङ्खादीनां आभरणानां परिधापनेन बाह्लीकरजसः कुङ्कुमादेर्विलेपनेन नेपथ्यवि-