सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०५
चतुर्थोऽङ्कः

व्याप्नोतीति मतम् । अत्र कालिन्द्याः जलस्य श्यामवर्णत्वात् नवमेघकालत्वं युज्यत एव । एवं मते गङ्गायमुनयोः सङ्गमप्रसङ्गे पूर्ववर्णितायाः गङ्गायाः कालिन्दजलधिं प्रत्यभिसरणं प्रेक्ष्य ध्रुवमियं नदी नेयमुर्वशी, अन्यथा कथमियं पुरूरवसं मामपहाय समुद्राभिसारिणी भवेदिति भ्रान्तिहानिः सङ्घटत एव ।

 भावस्तु जलनिधिर्नर्तकः तस्य मेघसदृश्यः श्यामा वीचयः अङ्गानि कल्लोल एवोद्गतौ बाहू । हंसचक्रवाकादयो भूषणानि, जलगजमकरेन्दीवरादयः परिधानम् । तीरेण दत्तस्य जलोत्क्षेपस्य हस्ततालत्वम् । एभिरुपकरणैः विशिष्टः सन् जलधिर्लीलया नृत्यति सर्वत्र परिसृत इव भातीति तात्पर्यम् । इयञ्च वस्तुस्थितिः जलधिः कालिन्दी, यां प्रति गङ्गा प्रवहति राजा चोर्वशीं गङ्गायां विवर्त्तयति, कालिन्द्याञ्च समुद्रं विवर्त्तयति तयोश्च सङ्गमं समुद्राभिसरणं मत्वा नेयमुर्वशी इयं परमार्थतः सरिदेवेति निश्चिनोति । अत्रोन्मादस्य परतरा काष्टा, प्रावृषि समुद्रोद्वेल्लनादेः दर्शनमतीवोद्दीपनं तच्च विप्रलम्भस्य पोषकम् । अत्र समुद्रे नर्तकत्वारोपात् तेन च तादात्म्यरूपणात् रूपकालङ्कारः । अत्र भ्रान्त्याख्यो भावो व्यज्यते । मे प्रेयसी यस्मिन् कस्मिन्नपि रूपे परिणतापि मां विहायान्यासङ्गिनी न क्वचिदपि भवित्रीति रागस्य दार्ढ्यात् इयं सरित् प्रिया कथं समुद्रनर्तकं गच्छतीति" प्रेक्ष्य नेयं मे प्रेयसीति निश्चयाद्राज्ञो रागः नापैत्यतिशोभत एवातः नायकगतरागस्य माञ्जिष्ठत्वं ध्वन्यते ।

 अत्र "मेहअङ्गे" इत्यस्य छाया “मेघाङ्गैरिति” कृता, अत्र यदि "मेह अअग्गे" इति पाठः स्यात्तदा मेघाग्रे नृत्यति इति भावः साधीयान् भवेत् । अपि चेदं विभावनीयम् यत् प्रसीद प्रियतमेति कुटिलिका गीतिः; तदन्तरे च "पुवदिसे"त्यारभ्य “जलणिहिणाहओ" इति चरणद्वयात्मिका चर्चरी, तत्पश्चाच्च "हंसरहंगेति" कुटिलिका राग एव ।

 अत्र उन्मादाविरेकं गतस्य राज्ञः गङ्गायां उर्वशीभानात् तदनुसरणेन स्मरस्य दशमी दशां नायकः क्वचित् प्राप्नुयात् इति भिया तद्वारणाय सहसा नायकस्यान्यतो जलधिं प्रति आकर्षणं तद्द्योतनाय अन्तराले चर्चरी निवेशोऽङ्गीकृतः कविनेति ज्ञेयम् , अत एव प्रसीदेति पद्ये चतुर्षु चरणेषु अन्त्यस्वरानुप्रासः एवमेव हंसरहंगेति चतुर्षु पादेषु अन्त्यस्वरानुप्रासः मध्येऽपि चर्चरीगतपादद्वयस्यान्ते "आहओ" इति संहतेः अन्त्यानुप्रास एव ॥

 अयमेकः पक्षः।

 यद्वा पूर्वदिगितिपद्यमन्यथापि व्याख्यातुं शक्यते तद्यथा-नायकः स्ववल्लभां वनान्तरेऽन्विष्यन् पशुपक्षिणस्तस्याः वृत्तं पृच्छन्नपि तामलब्ध्वा शुचः सीमानं गतः विप्रलम्भश्च काष्ठामधिरूढः । तत्र नदीरूपायाः प्रेयस्याः पुरतः प्रसादवचांसि ब्रुवन्नेव नातिदूरे महान्तं कश्चनोत्पतन्तं जलप्रवाहं पश्यति, यच्च दृश्यं महाकविना नायकस्य सामाजिकानाञ्च मनांसि काष्ठागतविरहवेदनायाः खेदाद्

 १८ विक्र०