पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०४
विक्रमोर्वशीये

तत्र तरङ्गभ्रूभङ्गेति पद्ये वर्णितस्यात्मनो दयितया साम्यमभिवीक्ष्य इयमेवोर्वशी या कोपवशान्नदीरूपं परिणतेति तस्यानुमा। तदनुमानवशात् "प्रसीद प्रियतमे" इति कुटिलिकाख्यगीत्या राजा तां नदीमुर्वशीं मत्वा प्रसादयितुं यतते । नद्याः गङ्गाभावेन सुरसरिदिति विशेषणं युक्तं सत् उर्वश्याः अप्सरोभावस्य गमकम् । अत्रान्तराले एव दूरे पूर्वदिशमनुवहन्तीं कालिन्दीं वेगेनोच्छलन्तीं वीक्ष्य तस्याः सर्वतः प्रसारेण भ्रान्तस्तां जलनिधिनाथं कलयन् नर्तकत्वेनोपवर्णयति; जलधौ नर्तके च यद्यत्साम्यं तत्पुरःसरं वर्णनं तद्यथा-

 पूर्वदिगिति-पूर्वा या दिक् ततो वहमानः पवनः तेनाहतः उत्पादितो यः कल्लोलो महोर्मिसङ्घर्षः स एव उद्गतः उच्चैः वर्तमानः बाहुः यस्य सः (जलनिधिनाथस्य विशेषणम् ) नर्तकः नृत्तसमये अभिनयाय स्वबाहुमुच्चैः करोति एवमेव जलधिविषये कल्लोलस्यैवोद्गतबाहुत्वम् । परश्च नर्तकानामङ्गेषु आभरणानि भवन्ति तान्यत्र कथमित्याह-हंसाश्च रथाङ्गाश्च हंसरथाङ्गाः शङ्खानि कुङ्कुमञ्च शङ्खकुङ्कुमानि तैः कृतमाभरणं येन स तादृशः जलधिः । जलधितीरे ये हंसास्ते आभरणवत् शोभाधायका अत एव यथा नर्तकस्य शरीरे शङ्खमाला आभरणायते एवमेवात्र हंसा इति श्वेतत्वसाधर्म्यात् हंसशङ्खयोर्विषयविषयिभावः । रथाङ्गकुङ्कुमयोरेवमेव रक्तत्वसाम्यं साधु एव । रथाङ्गानां चक्रवाकानां लेपनत्वं हंसानाञ्च भूषणत्वमिति तादात्म्यारोपः । नर्तका वस्त्रं धारयन्ति तदयं जलधिः कथं विदधातीत्याह यदयं नीलं परिधानं परिधत्ते-करिणः यादांसि (water elephants) मकराः ग्राहास्तैः आकुलानि समन्वितानि कृष्णकमलानि नीलकमलानि तैरेव कृतमावरणं येन सः । विशेषणमिदमुभयपक्षे साधारणम् । नर्तकानां नृत्यविधौ तालप्रदानमपि विधीयते तच्चात्र जलधिपक्षे वेलया दीयते तद्यथा-वेलया तटेन सलिलस्योद्वेलितं उच्छलनं (tossing up) तदेव दत्तः हस्ततालः यस्मै तादृशः । यस्य जलधेर्नर्तनव्यापारे वेला सलिलोत्क्षेपणेन करतालप्रदानं विदधातीति तात्पर्यम् । इदमवधेयं यत् तटे यदा जलप्रवाहः पतति तदा उच्छलन् व्याघातेन शब्दं जनयति तच्च तालप्रदानं नृत्यविधौ इति । रङ्गनाथेन "दत्तः हस्ततालो येन सः" इति कर्तरि तृतीयाबहुव्रीहिर्विहितः तेनेदमवगम्यते यन्नर्तक एव तालप्रदानं करोति तच्च नृत्तसम्प्रदायेऽसमीचीनम् ; नर्तकस्तु नृत्यति तस्य हस्तौ चाभिनये व्यापृतौ भवतः, अपरैस्तत्पार्श्विकैः तालप्रदानं क्रियते, अतः अत्र समुद्रनर्तकस्य कृते संयोगसम्बधेन पार्श्ववर्तिना तीरेण सलिलोद्वेलनमयेन तालप्रदानेन साहाय्यं विधीयते इति चतुर्थीबहुव्रीहिरेव साधुः । रङ्गनाथमतं तु सङ्गीतसम्प्रदायविरोधीति मत्वा चिन्त्यमेव, एतादृशः नवमेघकालः नवजलधरः इव कालः कृष्णवर्ण: जलनिधिनाथः कालिन्दाख्यो नदः स्वीयैः मेघाङ्गैः मेघसदृशैः श्यामैः अङ्गैर्वीचिभिः सललितं सुभगं रमणीयं यथा स्यात्तथा नृत्यति एवञ्च दशदिशः रुद्ध्वा प्रसृत्य अवतरति प्रवहतीत्यर्थः । अवस्तृणातीति पाठान्तरे प्रवहन्