पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०३
चतुर्थोऽङ्कः

भ्रान्तचेता राजा ताञ्च प्रसादयितुं यतते । तादृशचाटुवचोभिरपि स्वीयप्राकृतस्वरूपेणापरिणमन्तीं नदीं विलोक्य ताञ्च क्षणेन समुद्राभिसारिणीं मत्वा भ्रमं निवर्तयति, निश्चिनोति च यत्सा नूनं नदी एव नोर्वशी, यतः यदि सत्यमेवोर्वशी सा स्यात् कथं पुरूरवसं विहाय नायकान्तरं समुद्रमभिगच्छेत् । वस्तुस्थितिश्चात्र यद्राजा स्वराजधानीपरिसर एव उर्वश्या सह भ्रमंस्तां सहसैवादर्शनं गतां अन्विष्यन् वनमध्ये भ्रमति; भ्रमंश्च प्रावृषि नदीकच्छमागच्छति; क्षणान्तरे च तां समुद्राभिसारिणीं मत्वा नेयमुर्वशीति पूर्वकल्पनं मिथ्याकरोति ।

 अस्मिन्नभिसन्धौ महाकविः "प्रसीद प्रियतमे" इति कुटिलिकामवतार्य तत्रैव पुरतः उन्मादातिरेकं प्राप्तं राजानं पुनरुद्बोधयितुं स्वच्छन्दतयोच्छलन्तं जलनिधिनाथमुपस्थापयति यं दृष्ट्वा राजा उर्वश्याः नदीभावस्य भ्रान्तिं जहाति अपि च तं जलनिधिनाथं नर्तकं प्रकल्पयति ।

 अत्र "कुटिलिकान्तरे चर्चरी"ति नाट्यप्रसङ्गः, पूर्वदिगिति षट्पदं पद्यं, तत्र समुद्रोपस्थितिः, तस्य नर्तकत्वं; "मेहअंगे" इति पदं; "णवमेहआलु ओत्थरईति" शब्दसङ्घातः सर्वथैव सामञ्जस्यविरोधीति कृत्वा विद्वद्भिश्चिन्त्यः अत एवाधो विचिकित्साप्रसङ्गः प्रसार्यते ।

 पूर्वदिसेतिपद्यस्यावतरणिकायां रङ्गनाथः "उन्मादातिशयवशतो नदीं समुद्रत्वेन कलयंस्तं नर्तकत्वेन वर्णयती" त्याह । अत्रेयं चिन्ता यत् यदीयं सैव नदी या राज्ञा प्रसाद्यते यस्यास्तीरोपकण्ठमुपविष्टश्च सः तां मुहूर्तान्तरे समुद्रत्वेन कलयति तदा कोऽसौ समुद्रः यमभिसरन्तीं तां दृष्ट्वा राजा नूनमियं नदीं नोर्वशीति प्रमिमीते । अत्रानेन नूनमेव भाव्यं यत्तत्रास्ते कश्चन प्रवहन् जलधिः यमुपयान्तीं नदीं राजा पश्यति यश्च तस्य भ्रान्त्यपनुतौ कारणं भवेत् । अतस्तामेव नदीं समुद्रं कलयतीति कल्पनमनुचितमेव । पुनश्च समुद्रस्य मेघाङ्गैर्नर्त्तनमसाधु एव, समुद्रस्य नृत्तविधौ मेघानामङ्गत्वरूपणे बलवान् कष्टः स्फुट एव । परञ्च नवमेघकालः प्रावृट् तस्यावस्तरणप्रसङ्गः पुनरपि जलधिनृत्ये अघट एव । समस्तपद्यस्येकान्वितत्वकल्पने नृत्यतेरवस्तृणातेश्च युगपदन्वयोऽसाधुरेव । अपि च 'कुटिलिकान्तरे चर्चरी'त्यत्र विषये का सा कुटिलिका यदन्तरे चर्चरी दीयते, का च सा चर्चरीत्यूह्यमेव भवेद्यतो रङ्गनाथेन षट्पदत्वं पद्यस्य विदधता आत्मनोऽषट्पदत्वं रसचर्वणाव्यापारे व्यक्तीकृतं किल । अपरे च टीकाकृतो नामुं विषयमालोचयन्तीति साहाय्यविधुरैरस्माभिः सह मन्तव्यमिति कृत्वा पद्यमिदमधो व्याख्यायते-

 त्रोटकस्यास्य नायकः पुरूरवाः प्रतिष्ठानाधीशः । प्रतिष्ठानं च प्रयागोपकण्ठमाधुनिकं झूसीति नगरम् । तत्रोर्वश्या सह विहर्तुं राजा प्रतिष्टानाद्बहिर्गतः । तत्र शापवशाल्लतारूपेण परिणतां उर्वशीमदृष्ट्वा तामन्विष्यन् बंभ्रम्यमाणः भगवत्याः सुरसरितस्तीरमुपयाति । सा एव गिरिणदी यत्र च तरङ्गवातमासेवते नायकः । प्रावृषश्च समयः गगनस्य मेघाच्छन्नत्वञ्च तत्राभूत् । तां गङ्गां दृष्ट्वा