सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०२
विक्रमोर्वशीये

सुरसरित्तीरसमुत्सुकैणके
 अलिकुलझङ्कारितार्णके ॥ ५३॥]

(कुटिलिकान्तरें चर्चरी)

पुव्वदिसापवणाहअकल्लोलुग्गअबाहओ
मेहअअङ्गे णच्चइ सलिलअँ जलणिहिणाहओ । (५३ अ)
हंसरहंगसंखकुंकुमकआभरणु
 करिमअराउलकसणकमलकआवरणु ।
बेलासलिलुब्बेल्लिअहत्थदिण्णतालु
 ओत्थरइ दसदिस रुंधेविणु णवमेहआलु ॥ ५४॥
[पूर्वदिक्पवनाहतकल्लोलोद्गतबाहु-
 र्मेघाङ्गैर्नृत्यति सललितं जलनिधिनाथः ।
हंसरथाङ्गशङ्खकुङ्कुमकृताभरणः
 करिमकराकुल कृष्णकमलकृतावरणः॥
बेलासलिलोद्वेल्लितहस्तदत्ततालोs-
 वस्तृणाति दशदिशो रुद्ध्वा नवमेघकालः ॥ ५४ ॥]


वियोगादहमिव ते संत्रस्ता भविष्यन्तीति अर्थमवगमय्य तद्वियोगासहत्वं- 'कृते प्रतिकृतत्वं' प्रतिपाद्यते ॥ अत्र चरमचरणे प्रत्नपुस्तकेषु “अलिकुलझङ्कारिते नदि" एतादृशी छाया। परश्च तृतीयचरणे सुरसरित्तीरेति एकं समस्तं पदम् । तादृशपाठाङ्गीकारे 'नदि' इति सम्बुद्धौ सुरसरित्तीरेत्यत्र बहुव्रीहेः असमीचीनत्वम् स्फुटमेव । एतत्कृते तृतीयचरणे सुरसरिदिति सम्बुद्धिः, शेषं च तद्विशेषणम् । एवं कृते चान्तिमचरणे नदीति सम्बोधनं पुनरनुचितम् अतः अलिकुलझंकारितार्णके इति पाठविधानं हृदयङ्गममेव यतः अर्णशब्दो नीरवाची सान्तः अकारान्तोऽपि । सान्तेऽपि गृहीते "अर्णस्के" इति पाठो विधेयः तदनु च "एण्णए" इति प्राकृते करणीयम् यतः श्रेय एव पुरातनपाठस्य गर्ह्यत्वापेक्षयेदं प्रतिविधानं मन्यामहे ।

 अत्र प्रतिपादान्तं एणए इति अक्षरसङ्घदर्शनात् सचमत्कारं अन्त्यानुप्रासाख्यं अलङ्करणम् ॥ ५३॥

  पूर्वदिगिति-इहायं परिकरो यद्राजा उर्वशीमन्विष्यन् तामलभमानः वनान्तरे यं कमपि तदुदन्तं पिपृच्छुः सन्तोषमनवाप्नुवानः "अहह श्रान्तोऽस्मिति" खिन्नः गिरिणद्यास्तीरे श्रममपनोदितुं वातमासेवते । तत्र नदीं पश्यन् स रतिं भजमानः नदीं नदीरूपेण- परिणतामात्मनो वल्लभामुर्वशीं मनुते । परञ्च