कथं तूष्णीमेवास्ते । शङ्के विप्रकर्षान्न शृणोति । भवतु समीपमस्य गत्वा पृच्छामि । (अनन्तरे चर्चरी)
फलिहसिलाअलणिम्मलणिब्भरु |
अत्र द्रुतविलम्बितं वृत्तम् “द्रुतविलम्बितमाह नभौ भरौ" इति लक्षणात् ॥४९॥
पर्वतादपि प्रत्युत्तरमाकाङ्क्षन् राजा तदलभमान आह-कथं तूष्णीमेवास्ते मौनेनैव वर्तते । अत्र पर्वतादपि उत्तरं लिप्सोः राज्ञः भ्रान्तिः । शङ्के यदयं शिलोच्चयः विप्रकर्षात् दूरत्वात् न शृणोति यद् मया पृष्टमिति । भवतु-अस्य समीपं गत्वा पृच्छामि । (अनन्तरे चर्चरी)
स्फटिकेति-स्फटिकाः श्वेतमणयः तन्मयैः शिलातलैः निर्भरमत्यन्तं निर्मलस्तादृश, बहुविधैः नानारङ्गसौरभ्यवद्भिः कुसुमैः विरचितो गुम्फितः शेखरः शिखा यस्य तादृश ! किन्नराणां सुरगायकानां मधुरैः उद्गीतैः उच्चैः गीतैः मनोहर रमणीय महीधर मम प्रियतमां दर्शय । अनेन महीधरविशेषणत्रयेण महीधरस्य निर्मलत्वसंस्थापनात् अत्र सा कुत्रापि अविज्ञाता गूढा वा स्थातुं नार्हति । अवश्यमेव सा परिचेतुं योग्यास्तीति बोधः । अत्र अन्त्यानुप्रासः ।
निर्मलनिर्भरेत्यत्र प्राकृते पूर्वनिपातानियमात् पौर्वापर्यविपर्यये न कापि हानिः अतः निर्भरं अत्यन्तं निर्मलः इति अर्थः ॥५०॥
(चर्चरिकयोपसृत्य अञ्जलिं बद्ध्वा) चर्चरिकया उपसृत्य उपेत्य प्राञ्जलिरुत्तरं पद्यमुवाच । चर्चरिका गतिविशेषः, तालविशेषो वा “विरामान्तद्रुमद्वन्द्वं लघुन्यष्टौ च चर्चरी" इति भरतः।
सर्वक्षितिभृतामिति-यथा पूर्वं प्रतिज्ञातं तथा समीपं गत्वा गिरिराजमाह-राजा कथयति-