पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९९
चतुर्थोऽङ्कः ।

 (तथैव प्रतिशब्दं शृणोति । आकर्ण्य सहर्षम् ) कथं यथाक्रमं दृष्टेत्याह । भवतु । अवलोकयामि (दिशोऽवलोक्य सखेदम्) अये ममैवायं कन्दरान्तरविसर्पी प्रतिशब्दः। (इति मूर्च्छति) (उत्थायोपविश्य सविषादम् ) अहह श्रान्तोऽस्मि । यावदस्या गिरिणद्यास्तीरे तरङ्गवातमासेविष्ये । (द्विपदिकया परिक्रम्यावलोक्य च ) इमां नवाम्बुकलुषां स्त्रोतोवहां पश्यता मया रतिरुपलभ्यते ।


 हे सर्वेषां क्षितिभृतां पर्वतानां नाथ गिरिराज! अस्मिन् रम्ये रन्तुं योग्ये विहरणीये वनान्ते वनोद्देशे मया विरहिता वियुक्ता सर्वैरङ्गैः सुन्दरी परमचारुरूपा रामा त्वया दृष्टा किम् ? अनुष्टुब्वृत्तम् ॥ ५१ ॥

 (तथैव सर्वक्षितिभृतामितिशब्दं शृणोति ) सहर्षमाकर्ण्य कथं यथाक्रमं तयैवानुपूर्व्या दृष्टेत्याह-

 यद्राज्ञा सर्वक्षितिभृतामिति प्रोक्तम् तदेव प्रतिध्वनितम् गिरिणा तस्य अर्थमित्थं कृत्वा राजा जानाति यत्तेन दृष्टेत्युक्तमिति । प्रतिध्वनितस्यार्थः-हे सर्वेषां क्षितिभृतां राज्ञां नाथ हे राजाधिराज! अस्मिन् रम्ये वनान्ते त्वया विरहिता सर्वाङ्गसुन्दरी रामा मया दृष्टा इति क्षितिभृत्पदे श्लेषग्रहणात्, त्वयामयापदयोः विपर्ययेणान्वयात् राज्ञः पूर्वप्रोक्तस्योत्तरं भवति ।

 अत्र सर्वक्षितिभृतामितिपद्ये त्रिगताख्यं वीथ्यङ्गमुकं भवति तद्यथा “त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः” । एवं च मया विरहितेत्येतावति समुदाये मद्वियोगवती त्वया दृष्टेति पुरूरवसः पर्वतविषयं प्रश्नवाक्यं भवति यदा तु मयेति- विच्छिद्य पूर्ववाक्यसम्बन्धि क्रियते तदा त्वया विरहिता सती मया दृष्टेति उत्तरवाक्यविधाने पदच्छेदेन पठितिसमाख्यं सौन्दर्यम् यदुक्तं भोजदेवेन “काकुखरपदच्छेदभेदाभिनयकान्तिभिः । पाठो योऽर्थविशेषाय पठितिः सेह षड्विधा" ॥

 भवतु-अवलोकयाम्यस्मिन् वनान्ते क्व सा इति । (दिशोऽवलोक्य सखेदम्) नेदं गिरिराजस्य प्रत्युत्तरम् किन्तु ममैवायं कन्दरान्तरे विसर्पी गुहायां प्रतिध्वनितः शब्दः । इति ज्ञात्वा मूर्च्छति । अत्र ईप्सितार्थप्रतीघातात् प्रतिषेधो नाम विमर्शसन्ध्यङ्गं प्रतिपादितम् । अत्र विप्रलम्भस्य परमो वेगः ।

 (उत्थाय संज्ञां लब्ध्वा उपविश्य सविषादम् सशोकम् ) अहह ! इति खेदे । श्रान्तोऽस्मि । यावदतः अस्या गिरिणद्याः गिरेः प्रभूतायाः नद्याः तरङ्गैः संस्पृश्यमानं अत एव शीतलं वातं आसेविष्ये । शीतलवातस्य श्रमापनोदकत्वात् विरहाद्विहाराच्च श्रान्तो राजा शिशिरवातमासेवितुं कामयते । इह खेदाख्यं विमर्शसन्ध्यङ्गमुक्तं भवति यदाह “मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः"।

(द्विपदिकया परिक्रम्य विलोक्य च)

 इमां पुरो दृश्यमानां नवं यद् अम्बु जलं तेन कलुषामाविलां स्रोतोवहां नदीं