सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६३
चतुर्थोऽङ्कः।


(इति सकरुणं विचिन्त्य)

क नु खलु रम्भोरुर्गता स्यात्
तिष्टेन्कोपवशात्प्रभावपिहिता दीर्घं न ना कुप्यति
 स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषोऽपि हि न मे शक्ताः पुरोवर्तिनी
 सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः॥ ९ ॥

(इति मूर्छितः पतति)


 यावत्कालपर्यन्तमहं मेघोऽयं वर्षतीति नाज्ञासिषं तावत्कालं निशाचरो मे प्रियतमां नयतीति धीरासीत् । इदानीं तु तन्निवृत्तिरिति भावः । नुनिश्चये।

 अत्र धारासम्सपातेनैव नायं राक्षसः किन्तु जलधरः इति भेदाध्यवसायात् उन्मीलितालङ्कारः । यदुक्तं-"नेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषकौ” । उर्वश्या अध्यवसानाय नवतडिदिति विशेषणम् , श्यामलत्वञ्च रक्षसा साम्यपरिकल्पनाय ॥

 मृगलोचनामित्यत्रोपमा । इयं गाथा ॥८॥</poem>}}

 इति सकरुणं सशोकं विचिन्त्य-

 क्व कुत्र नु खलु रम्भोरुः कदलीस्तम्भनिभोरुरुर्वशी गता स्यादिति संशयः ।

 रम्भे कदलीस्तम्भौ तद्वदूरू यस्याः सा रम्भोरू: "ऊरुत्तरपदादौपम्ये" इति ऊङ् प्रत्ययः।

 रम्भोरुरित्युपमालङ्कारेण तस्योर्वोः वृत्तानुपूर्वत्वं सुखस्पर्शत्वं च व्यज्यते ।

 तिष्ठेदिति-इह हि सन्दहदोलाधिरुढं राज्ञो मनः विविधवितर्कान् निश्चयान्तान् विदधाति-

 सा मह्यं कोपवशात् प्रभावेण दिव्यात्मशक्त्या पिहिता अन्तर्गता विष्ठेत् किन्तु नायं सम्भवः, यतः सा मह्यं दीर्घं चिरकालं न कुप्यति । द्वितीया शङ्का- स्वर्गाय स्वर्गं गन्तुं उत्पतिता भवेत् , तदपि सम्भवं न, यतः अस्याः मनः मयि भावार्द्र स्नेहसरसं विद्यते । मां परित्यक्तुं नार्हति सेति भावः । विबुधानां द्विषः शत्रवः अमुरा अपि मे पुरोवर्तिनी समक्षं स्थितां तामुर्वशीं हर्तुं न शक्ताः समर्था न । तदप्यसम्भवः । सा च किन्तु मे नयनयोरत्यन्तं अगोचरतां अविषयतां प्राप्ता इति कोऽयमनिर्वाच्यः विधिः मे दैवम् ।

 क्रोधपरीतमानसा सान्तर्धानशक्त्या यदि कुत्रचिदिहैव अन्तर्हिता भवेदिति न, यतः सा चिरकालं मह्यं कुपिता न भवति । अथवा सा स्वर्गगमनेच्छया वियति उत्पतिता भवेत्तदपि न, यतः सा मयि गाढं प्रेमार्द्रा। अथवा पुनरपि राक्षसाः तां परिहत्य नीतवन्तो भवेयुस्तदपि न घटते, यतः तेषां मत्समक्षमेव तस्या हरणे सामर्थ्याभावात् । किन्तु यद्यपि कारणं न दृश्यते तथापि सा मम नयनयोरविषयतां याता मे दृक्पथमवतरति सा इति भावं हा कोऽयं विधिरिति सखेदं प्रकाशयति नायकः।