पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१८

 तृतीये विष्कम्भके भरतशिष्ययोः संवादे इन्द्रालये प्रयुज्यमाने लक्ष्मीस्वयंवरे रूपके वारुणीभूमिकायां वर्तमानया मेनकया “कस्मिंस्ते हृदयाभिनिवेशः" इति पृष्टा लक्ष्मीभूमिकोर्वशी "पुरुषोत्तमे" इति वक्तव्ये प्रमादात् 'पुरूरवसि' इति उक्तवतीति कुपितेन भरतेन "न ते दिव्यं स्थानं भविष्यति' इत्यभिशप्ता पुनर्देवेन्द्रेण “यथाकामं आपुत्रवदनदर्शनं तं मे सांयुगीनं सहायं सखायं सेवस्व" इत्यनुकम्पितेति कथांशः संयोजितः। मणिहर्म्यगृहे राज्ञि विदूषके च समागते प्रभावच्छन्नायाः सखीसनाथायाः तत्रभवत्या उर्वश्या अभिसारिकावेषेण आगत्य विदूषकराज्ञोः रहसि मन्त्रणस्य श्रवणम् , देव्या औशीनर्याश्च प्रियप्रसादनव्रतव्यपदेशेन तत्रैवागमनम् , रोहिणीसङ्गतं भगवन्तं चन्द्रमसं कञ्चुकीविदूषकौ राजानं चाभ्यर्च्य तस्याः प्रतिगमनम् । उर्वश्याः राज्ञः समीपे आगमनम्, चित्रलेखायाश्च सूर्योपस्थानाय स्वर्गारोहणं च।

 चतुर्थे, एकदा विहारं राज्ञा सह गतायाः, काञ्चन विद्याधरकन्यकामुदयवतीं प्रेक्षमाणाय राज्ञे कुपिताया गुरुशापसंमूढायाः कुमारवनं प्रविष्टाया उर्वश्याः लताभावकीर्तनम् , सङ्गममणिश्च तन्मोक्षोपाय इति कथनं च; विरहविधुरस्य राज्ञो वने मेघमयूरमधुकरमरालपिककरिशैलसरित्सारङ्गनीपेषु प्रियाप्रवृत्तिजिज्ञासानन्तरं सङ्गममणिमधिगत्य लताभूतां प्रियामालिङ्गितवतः शापमुक्तया तया सह सङ्गमः, प्रभूतेन च कालेन खराजधानीं प्रत्यागमनम् ॥

 पञ्चमे तु गृध्रेण सङ्गममणिहरणम् , कुमारेणायुषा तन्मारणम् , कुतो मे तनयः, तस्य गोपने च को वा हेतुरिति राज्ञो विकल्पनम् , जातमात्रस्यैव सत्यवतीहस्ते उर्वश्या न्यासीकृतस्य च्यवनेन महर्षिणा निर्वृत्तक्षात्रोचितसंस्कारस्य, गृहीतधनुर्वेदविद्यस्य कुमारस्यायुषः गृध्रवधरूपाश्रमानौचित्यकारित्वात् तापसीवेषधारिण्या सत्यवत्याऽऽनयनम् , तस्य च पित्रा परिचयः, तद्दर्शनप्रमुदितेन राज्ञा समाहूताया उर्वश्या आदौ पुत्रावाप्त्या प्रमोदः, विसर्जितायां तु सत्यवत्याम् “आपुत्रदर्शनं मे वयस्येन सह यथाकामं त्वयोषितव्यमिति" महेन्द्रकृतनियमस्य स्मरणेन विषादः, कृतप्रश्नाय राज्ञे विषादहेतोः प्रख्यापनम् , तस्मिन्नेव समये कुमारस्य राज्याभिषेकनिश्चयः, वनप्रस्थानाय कृतचेतसि राजनि नारदेनागत्य “सुरासुरविमर्दो भावी, भवान्मे समरसहायः सखा, न त्वया शस्त्राणि परित्यक्तव्यानि, इयं चोर्वशी यावदायुस्ते सहधर्मचारिणी भवतु" इति महेन्द्रसंदेशस्य कथनम् , राजोर्वश्योः विप्रयोगभीतयोः समाश्वासनम् नारदेन कुमारस्यायुषो यौवराज्येऽभिषेकः । तत्पश्चात् सर्वस्मिन् सुसम्पन्ने देवर्षिः नारदः राज्ञः किमपरं प्रियं कर्तुं शक्यते इत्यनुयुज्य राज्ञः प्रार्थितां समेषां जनानां सुखसम्पत्तिं आशिषा आशंसति । एवं राजा पुरूरवाः उर्वश्या सह ससुखं वार्धक्योचितशान्तिपरायणकार्यव्यापृतः सन् शेषं वयोऽयापयत् इति ॥