पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१७

प्रणमति । नारदस्तं आयुष्मन्तं अभिभाषते । राजा नारदं विष्टरं ग्राहयित्वा सविनयं किमागमनप्रयोजनमिति पृच्छति । भगवान्नारदः प्रभावदर्शी मघवा वनगमनाय कृतधियं भवन्तमनुशास्ति यत् त्रिकालदर्शिभिः सुरासुरविमर्दो भावीति समादिष्टम् ,भवांश्च सांयुगीनः सहायः अतो न भवता शस्त्रन्यासो विधेयः, इयं चोर्वशी यावदायुः तव सहधर्मचारिणी भवत्विति महेन्द्रसंदेशं कथयति । उर्वशी च मनसि विप्रयोगमहच्छल्यं अपनीतं ज्ञात्वा परं सुखमलभत । राजा च वासवस्य महान्नयमनुग्रह इति ख्यापयति । नारदश्च राज्ञे "परस्परं भावयतोः युवयोः पारस्परिकी इष्टकारिता अविच्छिन्ना भवतु" इति प्रोच्य आकाशमवलोक्य रम्भां मन्त्रेण सम्भृतं कुमारस्याभिषेकसम्भारमुपनेतुं समाज्ञाप्य कुमारं भद्रपीठे उपवेशयति । कलशञ्च शिरसि आवर्ज्य रम्भां शेषं विधिं निर्वर्तयितुं समादिशति । विधौ समाप्ते कुमारः सर्वान् प्रणमति । सर्वे यथोचितं मङ्गलं भाषन्ते ।

 अत्रान्तरे नेपथ्ये वैतालिकद्वयम् पितृसदृशः सन् त्वय्यधिकतरं विराजमानां राजलक्ष्मीं सविशेषं सम्भावयेति कुमाराय विजयं घोषयामास । ततश्चोर्वशी कुमारं ज्येष्ठमातरमभिवन्दितुमाह किन्तु सममेव जिगमिषुणा राज्ञा निवारितः । नारदश्च ते तनयस्य यौवराज्यश्रीः मरुत्वता सैनापत्ये समारोपितस्य कार्तिकेयस्य शोभां स्मारयतीति स्कन्दसदृशत्वं आयुषः प्रख्यापयति । इत्येवं सर्वस्मिन् सुसंपन्ने सति सर्वेषां मङ्गलाशासनगर्भेण भरतवाक्येन

  "परस्परविरोधिन्योरेकसंश्रयदुर्लभम्
   संगतं श्रीसरस्वत्योः भूयादुद्भूतये सताम् ।
  सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु
   सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु" इत्यमुना समाप्तं त्रोटकमिदम् ॥


॥ संक्षिप्तेतिवृत्तम् ॥

 त्रोटकस्यास्य तावत् प्रथमेऽङ्के सूर्योपस्थाननिवृत्तेन श्रुतदेवाङ्गनाक्रन्दनेन राज्ञा पुरूरवसा केशिदैत्येन हृतायाः सचित्रलेखायाः उर्वश्याः समुद्धरणम् । हेमकूटशिखरे राज्ञो विजयं प्रतिपालयन्तीनां सखीनां तया सह समागमः, श्रुतैतद्वृत्तेन महेन्द्रेण प्रेषितायाः गन्धर्वसेनाया नायकस्य चित्ररथस्य राज्ञा सम्मेलनम् , उर्वशीग्रहणम् , अत्रान्तरे संजातपूर्वरागयोः राजोर्वश्योः स्वस्वालयं प्रति प्रस्थानम् ।

 द्वितीये तु कामेनाभिभूयमाने राजनि पुरूरवसि प्रमदवनस्थे तिरस्करिणीप्रच्छन्नायाः ससख्याः उर्वश्याः खर्गादवतीर्य राज्ञे प्रेमपत्रप्रदानम् , तस्य च राज्ञानुवाचितस्य विदूषकहस्ते न्यासः । अत्रान्तरे लक्ष्मीस्वयंवराख्यं रूपकमभिनेतुं आहूतायाः अपूर्णमनोरथायाः उर्वश्याः खर्लोकगमनम् । अथ विदूषकानवेक्षया प्रभ्रष्टं मदनलेखमन्विष्यति राजनि कुपितया चेट्या सहायान्त्या काशिराजदुहित्रा मार्ग एव वायुवाहितस्य पत्रस्याधिगमः । पत्रनाशाद्राजनि दुःखिते सा लेखमर्पयित्वा भर्तुरनुनयं पादपतनं चावधीर्य शुद्धान्तमभिप्रस्थिता, ततो भीतस्य राज्ञः सविदूषकस्य निष्क्रमणम् ।