पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१६

च कोऽयं महाराजेन प्रसाध्यमानशिखण्डकः तिष्ठतीति सन्दिहाना विभाव्य सत्यवतीसहितो मे पुत्रक आयुरिति परिज्ञाय सशङ्काऽभवत् । राजा च कुमाराय तज्जननीं दर्शयति । तापसी कुमारमाहूयोर्वशीमुपसर्पति । उर्वशी पादाभिवन्दनं करोति । सर्वे यथोचिताभिवादनस्वागतानन्तरं यथास्थानमुपविष्टाः । तापसी च उर्वश्यै कुमारं यच्छति । उर्वशी च समुदाचारानुसारं तापसीं विसृजति । राजा च च्यवनायाभिवादनमर्पयितुमभ्यर्थयते । कुमारश्च बालभावसदृशं तापसीं जातकलापं शितिकण्ठं शिखिनं तदर्थे प्रेषयितुमभ्यर्थनां विदधाति । गतायां च तस्यां, राजा अद्याहं तवामुना पुत्रेण पुत्रिणामग्रसरः जयन्तेन पुरन्दर इव सम्पन्नः इति प्रियामभिनन्दयति । अत्रान्तरे उर्वशी महेन्द्राभिधानात् किमपि स्मृत्वा रोदिति । तां तादृशावस्थां विलोक्य विदूषकः राजानं दर्शयति । राजा च सावेगम् "अयि सुन्दरि । मदीयवंशस्थितेर्हेतोरधिगमात् अद्य प्रमोदहेतौ सत्यपि किमकारणं रोदिषी"ति प्रियां सादरं पृच्छति । उर्वशी च महेन्द्रसंकीर्तितं समयं स्मरन्ती “अहं पुरा महाराजनिहितहृदया गुरुशापसम्मूढा महेन्द्रेणावधीकृत्याभ्यनुज्ञाता यदा मम प्रियवयस्यस्त्वयि समुत्पन्नसुतस्य वदनं प्रेक्षते तदा त्वया प्रत्यागन्तव्यमिति, ततश्च महाराजवियोगभीरुतया मया संवृणीतः पुत्रकः" इति सर्व समाख्याय एतावान्मम महाराजेन सह संवास इति विज्ञापितवती ।

 एतन्निशम्य सर्वे विषादं रूपयन्ति राजा च मुह्यति । सर्वैः समाश्वासनानन्तरं राजा संज्ञामधिगम्य दैवस्य सुखप्रत्यर्थितां वर्णयन् सुतोपलब्ध्या आश्वासितस्य मम त्वया सह विप्रयोगः आतपरुजः प्रथमाभ्रवृष्ट्या रक्षितस्य जनस्य कृते विद्युदिवोपस्थित इति स्वीयं गुरुशोकवत्त्वं प्रकाशयति । तदनन्तरं विदूषकस्तपोवनं प्रचलितुं समुचितं मन्यमानस्तथोपदिशति । उर्वशी च पुत्रावाप्तेरनन्तरमेव समापन्नां विपत्तिं समीक्ष्य भृशं दुःखिता भवति, राजा च तां भर्तुराज्ञां पालयेत्युक्त्वा सूनौ राज्यं विन्यस्य वनान्यधिगन्तुं निश्चिनोति । कुमारश्च सविनयं प्रार्थयते यदधुना नृपपुङ्गवधृतायां राज्यधुरि वत्सतरं मां नियोजयितुं तातो नार्हतीति । राजा च तस्य साहसं वर्धयितुं गन्धद्विपस्य कलभोऽपि अन्यान् गजान् शमयति, भुजङ्गशिशोरपि विषं वेगोग्रं भवतीति उदाहरणैः स्वपक्षं दृढयन् , "बालोऽपि त्वं भुवं शासितुमलमसीति" वचनैः कुमारस्य तेजस्वित्वं प्रकाश्य तं सान्त्वयति । राजा कञ्चुकिनं अमात्यपर्वतं आयुष्मतो राज्याभिषेकं विधातुं निवेदयेत्यादिशति । कञ्चुकी दुःखेन निष्क्रान्तः । सर्वे दृष्टिमधः कुर्वन्ति । राजा च गगनमवलोक्य कुतो नु खलु विद्युत्सम्पातः इति शङ्कमानः किञ्चिन्निपुणं विभाव्य भगवन्तं नारदं पश्यन् चकितः सन् महामुनिं पिङ्गलजटाजूटं सितोपवीतं नारदं मुक्तासरसन्निवेशितं हेमप्ररोहं जङ्गमकल्पद्रुमं वर्णयन् अर्घायाज्ञापयति, उर्वशी च तम् समर्पयति । ततो भगवान्नारदः प्रविशति । उपेत्य च विजयमाशंसते । राजा चोर्वशी अभिवादनं कुरुतः, नारदश्चाविरहितौ दम्पती भूयास्तामिति आशिषं वदति । राजा चोर्वश्या विप्रयोगमासन्नं निरीक्षमाणः “अपि नामैवं स्याद्यथा महामुनिराशंसत" इति मनसि विचिन्तयन् एव कुमारम् आश्लिष्य भगवन्तमभिवादयेति प्राह । कुमारश्च