पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३८
वविक्रमोर्वशीये

(इति पृष्ठेनागत्य राज्ञो लोचने संवृणोति।)

(चित्रलेखा विदूषकं संज्ञां लम्भयति।)

 राजा-(स्पर्शं रूपयित्वा) सखे ! न खलु नारायणोरुसम्भवा वरोरूः।

 विदूषकः-कथं भवं अवगच्छदि ? [कथं भवानवगच्छति ?]

 राजा-किमत्र ज्ञेयम्-

 राजा-

अन्यत्कथमिव पुलकैः कलितं मम गात्रकं करस्पर्शात् ।
नोच्छ्वसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदम् ॥ १६ ॥


 अत्र ललितं नाम नायिकालङ्कारो विद्यते । “सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ।"

(इति विचार्य पृष्ठत आगत्य राज्ञो लोचने संवृणोति निमीलयति ।)

 चित्रलेखा -स विदूषकं तूष्णीं स्थातुं संज्ञां इङ्गितेन वस्तु लम्भयति प्रापयति ।

 राजा-(स्पर्श रूपयित्वा-उर्वशीहस्तस्पर्शजन्यसौख्यमनुभाव्य) सखे ! नेयं किं नारायणस्य ऊरुः सम्भवो यस्याः सा नारायणोरुदेशसमुत्पन्ना वरोरू: अपि तु सैव नान्या तादृशसुखस्पर्शवती भवितुमर्हतीति भावः ।

 विदूषकः-कथं भवान् अवगच्छति जानाति ।

 राजा-किमत्र ज्ञेयम्-स्पष्टमेवैतत् ।

 राजा-अन्यदिति-अन्यत् यदीदमन्यथा चेत् यदि नास्ति सा वरोरुः तदा मम गात्रकं शरीरं करस्य स्पर्शात् कथमिव केन प्रकारेण पुलकैः कलितं जातम् । सा यदि न स्यात् कथं नाम मे शरीरे रोमहर्षः सम्पन्नः। अथवा- यदि सा न स्यात् कथं किमुद्दिश्य मम गात्रकं करस्पर्शमात्रेणैव पुलकैः कलितं युक्तं सत् अन्यदिव जातम् अनिर्वाच्यावस्थां प्राप्तम् । तमेवार्थ दृष्टान्तेन विशिनष्टि-चन्द्रस्य अंशुभिः किरणैरिव तपनकिरणः सूर्यस्य उष्णैः रश्मिभिः कुमुदं नोच्छ्वसिति विकासं नाप्नोति । यथा शीतलैः सुधांशोः मरीचिभिः कुमुदं विकसति न तथा रविगभस्तिभिर्भवतीति भावः ।

 अनेन तदन्यस्त्रीकरस्पर्शस्तपनकिरणसदृशः अस्तीति व्यञ्जयन् नायिकां बहुमानः प्रदर्शितः । यतः तस्याः करस्पर्शः चन्द्रस्येवांशुसदृशः । अत्र चदि आल्हादने तस्मात् चन्द्रस्य व्युत्पत्तेः नितान्ताल्हादकत्वं ध्वनयति । स्वस्य कुमुदत्वप्रख्यापनेन चन्द्रपारतन्त्त्र्यं प्रकाशमानः नायिकायत्तजीवितत्वं ध्वन्यते । तथा च रोमहर्षादीनां वर्णनात् सात्विकानां भावानाम् प्रख्यापनं कृतम् ।