पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३७
तृतीयोऽङ्कः

हर्म्येऽस्मिन्नवतीर्य साध्वसवशान्मन्दायमाना बलात्
 आनीयेत पदात्पदं चतुरया सख्या ममोपान्तिकम् ॥१५॥

 चित्रलेखा-हला उव्वसि ! इमं दाव से मणोरहं संपादेहि । [ सखि उर्वशि! इमं तावदस्य मनोरथं सम्पादय ।]

 उर्वशी-(ससाध्वसम् ) कीडिस्सं दाव । [क्रीडिष्ये तावत् ।]


यामपि अविज्ञातैव मा भविष्यतीति सुरक्षितत्वमपि ज्ञायते । तथा च कामिनीनां परिहासशीलत्वात् नायकं सहसैव चकितं विधातुं प्रयत्नो भवतीति स्वभावस्यापि बोधो भवति । तथा च यदि समक्षतया संलापादिना मेलनमसंभवत् गूढेनापि चेतः समाश्वासयितुं शक्यम् । तथा च नूपुराणां शब्दमात्रमपि श्रुतिपथमवतरेदित्यनेन औत्सुक्यातिरेकः ध्वन्यते । कान्तं तु तावन्मात्रस्याप्यसुप्राप्यत्वात् विशेषतया चित्तप्रसादकं भवेदिति हेतुनोक्तम् । श्रुतौ पातयेदित्यनेन उर्वशीरूपो विषयो येन केनापि इन्द्रियेण गोचरो भवेत्तत्रापि मनसः सावधानता भविष्यतीति व्यङ्ग्यम् । अनेन राज्ञो नितान्तं तत्परत्वं व्यज्यते । पश्चात्पदेनापि गूढपदेन व्यङ्ग्यं व्यज्यते । शनैःपदेन मृदुत्वबोधनपूर्वकं तज्जन्यः आल्हादातिशयो बोध्यते । साध्वसवशात् इत्यनेन तस्या अत्यन्तसौकुमार्यं सूच्यते । यतः सा परवशा सती गतिं मन्दां चकार न तु स्वमनोवृत्त्या, ततश्च मनस्युद्विग्नताया अभावो नास्तीति द्योत्यते । मन्दायमानेतिपदेन हंसगतित्वज्ञापनपुरःसरं नायिकाभूषणं प्रदर्शितम् । बलादिति अनेन कोऽपि लज्जातिशयो गम्यते । पदात्पदं तमेवार्थं पोषयति । चतुरया इत्यनेन चित्रलेखायाः कार्याकार्यज्ञत्वं प्रदर्श्य सद्दूतीत्वं प्रकाश्यते । ममोपान्तिकमित्यनेन अतीव सान्निध्यं लिप्सुः सः स्वबलहीनत्वं व्यञ्जयन् सरस्य परां कोटिमधिरूढत्वं व्यनक्ति ।

 अत्र करोत्पलवृते लोचने इत्यत्र करस्य उत्पलबकल्पनया पुनश्चावरणसामर्थ्याभावाचोत्पले, उत्पलस्य पुनः करत्वकल्पनया दृक्कमलेन पश्यतीतिवत् परिणामालङ्कारः । यदुक्तं "विषयात्मतयाऽरोप्ये प्रकृतार्थोपयोगिनि । परिणामो भवेत् । अत्र च एकस्यैव वस्तुनः उर्वशीसमागमसौख्यस्य लाभात् वस्तुत्रयप्रदानात् समुच्चयश्च ।

 अत्र पूर्वार्धे कर्तरिप्रयोगस्य सद्भावात् उत्तरार्धे च कर्मणिप्रयोगप्रदानेन न मनागपि भग्नप्रक्रमतादोषापत्तिः यतः औत्सुक्येन विस्मृतस्वत्यस्य नायकस्य मुखे भावात् न दोषस्तथा सख्या बलादानीयेत अत्र या काचनापि सहृदयगम्या कमनीयता समायाता तत्र रसिका एव प्रमाणम् ।

 अत्र शार्दूलविक्रीडितम् वृत्तम् ॥ १५॥

 चित्रलेखा-सखि उर्वशि! इमं पूर्वश्लोकानुवर्णितं अस्य मनोरथं सम्पादय । तत्समीपं गत्वा तं सम्भावयेत्यर्थः।

 उर्वशी-(ससाध्वसम्-सभयम् ।) क्रीडिष्ये तावत्-तस्य प्रत्यक्षा अभूत्वैव तिरोहितैव लोचनावृतिकरणेन तस्योपहासं करिष्यामि ।