विदूषकः-भण वीसद्धो जं सि वत्तुकामो । असाज्झो त्ति परिच्छिदिअ आदुरो विअ वेज्जेण अइरेण मुक्को तत्तभवं भोदीए। [भण विश्रब्धो यदसि वक्तुकामः । असाध्य इति परिच्छिद्य आतुर इव वैद्येनाचिरेण मुक्तस्तत्रभवान् भवत्या ।]
राजा--अपि नाम सा उर्वशी-
उर्वशी-(आत्मगतम्) किदत्था भवे । [कृतार्था भवेत् । ]
राजा-----गूढं नूपुरशब्दमात्रमपि मे कान्तं श्रुतौ पातयेत्
पश्चादेत्य शनैः करोत्पलवृते कुर्वीत वा लोचने ।
विदूषकः-राज्ञोऽभिप्रायं ज्ञात्वा कथयति यत्किमपि वक्तुकामः असि तत् विश्रब्धः विश्वस्तः सन् भण कथय । असाध्योऽयमस्य रोग इति परिच्छिद्य निश्चित्य आतुरो रोगी यथा वैद्यनाचिरेण शीघ्रमेव परित्यज्यते तथैव त्वमपि भवत्या देव्या मुक्तः परित्यक्तः । वक्तुकाम इत्यत्र “तुङ्काममनसोः" इत्यनेन मकारलोपः।
अनेन कामुकानां कामावस्था असाध्या भवति, राजा च तादृशी अवस्था प्रतिपन्न इति बुध्यते । अत्रोपमालङ्कारः।
राजा-उर्वशी दिदृक्षुः सन् तद्विरहसन्तप्तः तामेव ध्यायन् स्मरति । अपि नाम प्रश्ने।
उर्वशी-राज्ञः कियान् प्रणयस्तस्यामिति जिज्ञासुः सा आत्मगतं विचचार । यदि उर्वशी तव विचारसरणीमारोहति चेत् कृतार्था धन्या भवेत् । अनेन तस्या औत्सुक्यं ध्वन्यते।
राजा-गूढमिति-अपि नाम सा उर्वशीति चूर्णकेनान्वितं पद्यमिदम् । गूढं गुप्ततया अविज्ञातमेव वा मे श्रुतौ कर्णपुटे कान्तं मनोहारि नूपुराणां - शब्दमात्रमेव पातयेत् । किमुर्वशी स्वनूपुरकलशिजितेन मे कर्णपुटम् अनुग्राहयेत् ? । अथवा भविष्यति (किं सा इयती कृपया संविष्टचेताः ) यत्सा पश्चात् मम पृष्ठभागे एत्य शनैः शनैः तस्या करौ एवोत्पले तेन वृते समाच्छादिते मम लोचने कुर्वीत । अथवा अस्मिन् हर्म्ये प्रासादे अवतीर्य आकाशादधो गत्वा साध्वसवशात् भीता अत एव मन्दायमाना मन्दगतिः पदात्पदं प्रतिपदं बलात्कारेण तस्या चतुरया सख्या चित्रलेखया मम उपान्तिकं समीपमानीयेत वा।
कथमपि तया सह समागमः अत्र सम्भवः किमु इति विचारयति ।
अत्र गूढपदप्रदानेन गुप्तागमनस्य बोधकत्वात् सहसैव तस्या लाभादानन्दातिशयो भावी इति ध्वन्यते । तथा च गूढमनेन देव्यां इहैव कुत्रापि समाच्छन्ना-