उर्वशी-अम्महे ! वज्जलेवघडिदं विअ मे हत्थजुअलं ग समत्थाम्हि अवणेदुम् । [अम्महे ! वज्रलेपघटितमिव मे हस्तयुगलं न समर्थास्म्यपनेतुम् । ] (इति मुकुलिताक्षी चक्षुषो हस्तावपनीय ससाध्वसा तिष्ठति ।)
(राजा हस्ताभ्यां गृहीत्वा परिवर्तयति।)
उर्वशी-(कथञ्चिदुपसृत्य ) जेदु जेदु महाराओ।[जयतु जयतु महाराजः।]
अत्र पूर्वार्धस्य द्वितीयार्थग्रहणे अतिशयोक्तिरलङ्कारः । यतः प्रस्तुतस्य शरीरस्य अन्यत्वकल्पना कृता यदुक्तम् -"प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् । कार्यकारणयोश्चैव पौर्वापर्यविपर्ययः" तत्राप्यतिशयोक्तिः । अथवा अभेदेभेदप्रख्यापनेनातिशयोक्तिः । तथा चात्रानुमानालङ्कारः। रोमहर्षस्य सत्त्वात् सैवेति अनुमीयते । तथा च उत्तरार्धे दृष्टान्तालकारः । यतः पूर्वार्धोत्तरार्धप्रतिपाद्ययोः वस्तुनोः बिम्बप्रतिबिम्बभावः । यदाहुः “दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् ।" स च चन्द्रस्येवांशुभिरिति प्रदानात् उपमागर्भितः, नञर्थेन च प्रतिपादनात् वैधर्म्येण अत एवात्र वैधर्म्येणोपमागर्भितदृष्टान्तालङ्कारः । एतेषां च स्वतन्त्रतया चमत्काराधायकत्वेन संसृष्टिरलङ्कारः।
ततश्चात्र संचिन्त्यमानस्यार्थस्य लाभेन क्रमो नाम सन्ध्यङ्गमुक्तं भवति । लक्षणं तु यथा दर्पणे "भावतत्त्वोपलब्धिस्तु क्रमः स्यात् ॥" अनुमा नाम सन्ध्यामप्यत्र क्रमेण संसृज्यते ।
अत्र सुकुमारता नाम गुणः यदुक्तं रसगङ्गाधरे "अपरुषवर्णघटितत्वं सुकुमारता" । अनुप्रासश्च ।
इयं चार्याजातिः ॥ १६ ॥
उर्वशी-अम्महे इति आश्चर्ये । वज्रस्य लेपस्तेन घटितं कल्पितमिव मे हस्तयुगलं नयनयोरपनेतुं समर्था नास्मि । नायकस्यास्पर्शात् अस्यै अपि कोऽपि महान्प्रमोदः समजनि । वज्रलेपघटितमेवेत्यस्य सम्भावनातः उत्प्रेक्षालङ्कतिः ।
इति उक्त्वा मुकुलिताक्षी निमीलितनयना राज्ञः चक्षुषः हस्तौ अपनीय दूरीकृत्य ससाध्वसा तिष्ठति । अनेन व्रीडा नाम सहजो नायिकालङ्कारो दर्शितः । भीरुत्वं च प्रोक्तम् । यदुक्तं-'वैवर्ण्याधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो व्रीडा'।
(राजा पृष्ठे स्थितां उर्वशीं स्वहस्ताभ्यां परिवर्तयति पुरतः आनयति।)
उर्वशी-(कथञ्चित् लज्जावशात् उपसृत्य , पुरः आगत्य ) जयतु जयतु महाराजः इति नायकस्योत्कर्षं भणति ।