यावदेनमवलोकनमार्गे स्थितः प्रतिपालयामि ।
(ततः प्रविशति यथानिर्दिष्टः सपरिवारो राजा विदूषकश्च)
राजा-(आत्मगतम्)
कार्यान्तरितोत्कण्ठं दिनं मया नीतमनतिकृच्छ्रेण ।
अविनोददीर्घयामा कथं नु रात्रिर्गमयितव्या ॥४॥
कञ्चुकी-( उपगम्य । ) जयतु जयतु देवः । देव ! देवी विज्ञापयति—'मणिहर्म्यपृष्ठे सुदर्शनश्चन्द्रः। तत्र सन्निहितेन देवेन प्रतिपालयितुमिच्छामि यावद्रोहिणीसंयोगः' इति ।
राजा-विज्ञाप्यतां देवी यस्तव च्छन्द इति ।
यावदिति । यावत् तेनाहं अवलोकनमार्गे देवस्य दर्शनपथि स्थितः सन् एनं देवस्यागमनम् प्रतिपालयामि प्रतीक्षे ।
(ततः प्रविशति यथानिर्दिष्टः परिचारिकागृहीतदीपिकापरिवृतः सपरिवारः अनुचरसहितः राजा विदूषकश्च )
राजा-(आत्मगतम्)
कार्यान्तरितेति-कार्यैः राजकर्मभिः अन्तरिता विनिता अज्ञाता उत्कण्ठा प्रियाविरहजनितखेदः यस्मिन् इति तादृग् दिनं मया अनतिकृच्छ्रण ईषत्कष्टेन सौकर्येण वा नीतमतिवाहितम् । किन्तु अविनोदेन कार्यलग्नत्वाभावेन उत्कण्ठया च दीर्घाः यामाः प्रहराः यस्याः सा रात्रिः कथं केन प्रकारेण गमयितव्या यापनीया।
दिनं तु राजकार्यव्यापृतत्वात् अनायासेन व्यतीतम् किन्तु अन्यकार्यराहित्यात् प्रियोत्कण्ठासद्भावाच्च परमदीर्घति प्रतीयमाना रात्रिः कथं नु अतिवाहितव्येति खेदः।
न च अनतिकृच्छ्रेणेत्यत्र विधेयांशस्य शङ्का कार्या । कुतः । प्रधानस्यापि नञार्थस्य समासे गुणीभावात् । कृच्छ्रपदार्थस्य कष्टस्येष्टत्वप्रदर्शनात् साधुत्वमेव । कामस्य द्वितीयेयं दशा उत्कण्ठेति । इयञ्चार्या जातिः ॥४॥
कञ्चुकी-(उपगम्य समीपमागत्य )
जयतु जयतु देवः-स्वामिनः मङ्गलकाङ्क्षिणां सर्वेषां सज्जनानां समुदाचारपद्धतिरियम् । देव स्वामिन् ! देवी काशीराजदुहिता विज्ञापयति निवेदयति यत् मणिहर्म्यम् तदाख्यः प्रासादस्तस्य पृष्ठे उपरि चन्द्रः सुदर्शनः सुभगतया लक्ष्यते । तत्र मणिहर्म्यप्रासादे सन्निहितेन उपस्थितेन देवेन सह यावच्चन्द्रस्य रोहिण्या सह संयोगो भवति तावत् प्रतिपालयितुमिच्छामि तत्रैव स्थातुमभिवाञ्छे ।
रोहिणी दक्षस्य कन्या परमप्रियतमा चन्द्रस्य पत्नी । रोहिणी तदाख्यं नक्षत्रम् ।
राजा-विज्ञाप्यतां कथयतां देवी यस्तव च्छन्दः अभिप्रायस्तत्तथैव भविष्यति । अहं नूनमागमिष्यामि मणिहर्म्यप्रासादे इति भावः । .