कञ्चकी-यदाज्ञापयति देवः । (इति निष्कान्तः।)
राजा -वयस्य ! किं परमार्थत एव देव्या व्रतनिमित्तोऽयमारम्भः स्यात् ?
विदूषक:-तक्केमि संजादपच्चाद्दावा अत्तभोदी वदव्ववदेसेण तत्तभवदो पणिपादलंघणं पमज्जिदुकामा त्ति । [तर्कयामि संजातपश्चात्तापा अत्रभवती व्रतव्यपदेशेन तत्रभवतः प्रणिपातलङ्घनं प्रमार्ष्टुकामेति ।]
राजा-उपपन्नं भवानाह । तथा हि----
अवधूतप्रणिपाताः पश्चात्सन्तप्यमानमनसोऽपि ।
निभृतैर्व्यपत्रपन्ते दयितानुशयैर्मनस्विन्यः ॥ ५ ॥
"अभिप्रायवशौ छन्दौ" इत्यमरः ।
कञ्चुकी-यदाज्ञापयति भवान् तदेवाहं निवेदयिष्यामीति भावः।
(इति निष्क्रान्तः अपगतः।)
राजा-वयस्य माणवक ! किं परमार्थतः सत्यमेव देव्याः अयमारम्भः प्रयत्नः व्रतनिमित्तः व्रतसम्पादनायैव स्यात् ? मां वशयितुमयमारम्भः उत वा सत्यं व्रतायैवेति शङ्का ।
विदूषकः-अहं तावत् तर्कयामि विचारयामि अनुमिनोमि वा यत् संजातः पश्चात्तापः यस्या एतादृशी अत्रभवती मान्या देवी व्रतस्य व्यपदेशेन मिषेण तत्रभवतस्तव प्रणिपातो नमस्क्रिया चाटुकारित्वं प्रसादनं वा तस्य लङ्घनमस्वीकारः तमपराधं प्रमार्ष्टुकामा प्रोञ्छितुं वाञ्छतीति भावः ।
त्वया कृतानि प्रसादनान्यवमत्य त्वयि कृतं तिरस्कारं समाधत्तुमिच्छतीत्यर्थः । इत्यहं सम्मावयामि ।
राजा-उपपन्नं युक्तं तावत् भवानाह । तथा हि----
अवधूतेति-अवधूताः अवमानिताः प्रणिपाताः प्रियकृतप्रसादनानि याभिस्तास्तिरस्कृतप्रणिपाताः पश्चात् तिरस्करणानन्तरं सन्तप्यमानानि भृशं पीडितानि मनांसि यासां ताः मनस्विन्यः चतुराः स्त्रियः निमृतैः केनापि छलेन कृतैः अतः विनयेन प्रकटीकृतैः दयितविषयकैः अनुशयैः अनुतापैः व्यपत्रपन्ते लज्जिताः सत्यः स्वमपराधं अनुसन्धातुमिच्छन्ति ।
निमृतैर्विनीतैः-"निमृतविनीतप्रश्रिताः समाः" इत्यमरः । रङ्गनाथस्तु गुप्तैरिति लिखति ।
अनुशयः-"अनुतापोऽनुबन्धो वा” “दीर्घद्वेषानुतापानुबन्धे त्वनुशयः पुमान्" इति विश्वलोचनः।
१० विक्र०