पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७
तृतीयोऽङ्कः

 (नेपथ्याभिमुखमवलोक्य ) अये ! इत एव प्रस्थितो देव:- परिजनवनिताकरार्पिताभिः परिवृत एष विभाति दीपिकाभिः। गिरिरिव गतिमानपक्षसादादनुतटपुष्पितकर्णिकारयष्टिः ॥ ३ ॥


एतादृशप्रयोगस्यापि कविसम्मानितत्वात् । “दिव्यो जनः" "वृद्धो जनो दुःखशतानि भुङ्के" इत्येतेषां दर्शनात् । अपि चात्र वृद्धाः पुरुषाः इत्यभिप्रायः ।

अत्रोत्प्रेक्षालङ्कारः। अनुत्कीर्णानामपि मयूराणां उत्कीर्णतासम्भावनात् धूमे च कपोतसम्भावनात् ।

 "शार्दूलविक्रीडितं वृत्तम्" ॥ २॥

( नेपथ्यस्य तिरस्करिx अभिमुखं दृष्ट्वा )

 अये इति विस्मये अन्वेष्टुनिष्टस्य वस्तुनो लाभादानन्दे वा । इत एव प्रस्थितो देवः इहैवायाति देव इति ।

 परिजनेति-परिजनभूतानां परिचारिकाणां वनितानां स्त्रीणां करेषु हस्तेषु अर्पिताभिर्दत्ताभिः दीपिकाभिः परिवृतः वेष्टितः एष देवः पक्षाणां पतत्राणां सादः च्छेदस्तदभावात् पक्षच्छेदनस्य प्राक् गतिमान् जङ्गमः गिरिः पर्वत इव विचालितः दृश्यते । कीदृशः स गिरिः-अनुतटं परिपार्श्वं पुष्पिताः प्रसूनयुक्ता विद्यन्ते कर्णिकारलतानां यष्टयः यस्मिन् तादृशः इति ।

 परिजनगृहीतदीपिकाभिः परिवेष्टितो राजा सपुष्पकर्णिकारयष्टिर्जङ्गमगिरिरिव दृश्यत इति भावः।

तृतीयोऽङ्कः।दीपिका-}}मशाल इति भाषा (or torch ) इति आङ्ग्लाः ।

 पुरा हि गिरयः सपक्षाः आसन् ते च इतस्ततः उड्डयनञ्चाकुर्वन् । एकस्मात् स्थानात् स्थानान्तरे तेषां सहसा च समागमात् महती हानिः लोकानां बभूव । तेन क्रुद्धो महेन्द्रः तेषां पक्षान् अच्छिनत् इति पौराणिकी वार्ता । इह च पक्षसादाभावे गिरेः गतिमत्त्वं प्रोक्तम् तच्च युक्तमेव ।

 अत्र चोपमालङ्कारः । राजा उपमेयः, गिरिरुपमानम् । उभयोः साधर्म्यं यथा-राजा दीपिकाभिः परिवृत आसीत् । गिरिश्च पीतेभ्यः पुष्पेभ्यः समेतः आसीत् । राज्ञा सह वनिता अप्यासन् । इह च पर्ववे कर्णिकारतरूणां यष्टित्वारोपेण वनितासदृशत्वं चापि समारोपितम् । इव चोपमावाचकपदम् । तेन पूर्णोपमेयम् ।

 कर्णिकारयष्टिरित्यत्र कर्णिकारतरूणामुपरि यष्टित्वेन ताद्रूप्यप्रतिपादनात् रूपकालङ्कारः । अत्र प्रसादाख्यो गुणः ।

 अनेन राज्ञः गिरिसदृशत्वं महत्त्वं च व्यक्तम् । स्त्रीणाञ्च अङ्गयष्टिसमुल्लसितत्वं ध्वन्यते । राज्ञः शोभातिरेकश्च सूच्यते ।

 पुष्पिताग्रा वृत्तम् । लक्षणन्तु यथाह भगवान् पिङ्गल:-"पुष्पिताग्रा नौर्योन्जौ ज्रौग् । अर्धसममिदं वृत्तम् । यस्य प्रथमे पादे नकारौ रेफयकारौ च द्वितीये नकारजकारौ जकाररेफौ गकारश्च तद् वृत्तम् पुष्पिताग्रा नाम । यथा पूर्वार्धं तथैवोत्तरार्धमर्धसमेषु वृत्तेषु ॥ ३ ॥