पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
विक्रमोर्वशीये

महाराजः। तदेव मद्वचनाद्विज्ञापय” इति यावदहमवसितसन्ध्याकार्यं महाराजं पश्यामि ।

(परिक्रम्यावलोक्य च)

 रमणीयः खलु दिवसावसानवृत्तान्तो राजवेश्मनि-----

उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो
 धूपैर्जालविनिःसृतैर्बलभयः सन्दिग्धपारावताः ।
आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः
 सन्ध्यामङ्गलदीपिका विभजते शुद्धान्तवृद्धो जनः॥२॥


दनाय समाप्त्यै व्रतस्य अनुच्छेदार्थं मया मानं चित्तोन्नतिमाग्रहं वा उत्सृज्य परित्यज्य निपुणिकामुखेन पूर्वमेव महाराजो याचितः प्रार्थितः । मदापराधिनमपि महाराजं मम व्रतपूरणाय अहं खीयमानं विहाय निपुणिकाद्वारा प्रार्थितवती इत्यर्थः । तदेवार्थं मद्वचनात् विज्ञापय निवेदय" इति महिष्या आदेशः ।

 "मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे" इति हैमः । यावदिति-इति आदेशं गृहीत्वा अहं अवसितं समापितं सन्ध्याकार्यं येन तादृशं महाराजं पश्यामि । (परिक्रम्यावलोक्य च)

 रमणीय इति-राजवेश्मनि राजप्रासादे दिवसस्य अवसानं समाप्तिस्तस्य वृत्तान्तो रमणीयः खलु । सायन्तनी वेला प्रासादे राजत इति सारः । कथं राजत इत्याह----

 उत्कीर्णा इवेति-वासयष्टिषु पक्षिणां वासार्थं निर्मितेषु निखातेषु वा वंशदण्डेषु निशासम्बन्धिनी या निद्रा तया अलसा सतन्द्रा बर्हिणो मयूराः उत्कीर्णाः पाषाणे खचिता इव सन्ति । मयूराः निद्रावशात् निश्चलाः सन्तीति भावः। जालेभ्यो वातायनेभ्यः निःसृतैर्निर्गतैः सुगन्धिधूपैः वलभयः शिरोगृहाणि सन्दिग्धाः शङ्किताः पारावताः कपोताः यासु तादृश्यः अवभासन्ते। चन्द्रशालासु धूपसद्भावात् तत्र किं कपोताःसन्तीति अवभासते । इयं कवेः उत्प्रेक्षा।

 आचारे नियमे प्रयतस्तल्लीनः पवित्रो वा शुद्धान्तस्थः अन्तःपुरस्थो वृद्धो जनः पुष्पैश्च बलिभिश्च युक्तेषु सपुष्पबलिषु स्थानेषु अर्चिष्मतीः ज्वालासहिताः सन्ध्यासमये माङ्गलिकाः दीपिकाः विभजते संस्थापयति । सकुसुमोपहारेषु स्थलेषु शुद्धान्तवृध्दो जनः दीपकान् स्थापयतीति भावः । विभजते विभक्तान् करोति तत्र तत्र स्थाने निवेशयतीत्यर्थः। “वलमी चन्द्रशालिका" इत्यमरः-तदाख्यशिरोगृहम् (Terrace)। प्रयतस्तत्परः पवित्रो वा "पवित्रःप्रयतः पूतः" इत्यमरः।

 शुद्धान्तवृद्धो जनः इत्यत्र कैश्चित् पाश्चात्यैः 'जनः' इति पदस्य समस्तत्व एव समूहात्वार्थबोधकसमित्युक्त्वा पाठोऽयं दूषित इत्यङ्गीक्रियते किन्तु तत्तावदनुचितम्।