पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०
विक्रमोर्वशीये

 किं मिथ्या भवतो हृतेन दयितास्नेहस्वहस्तेन मे।


 हृद्दाहकेनानेन कर्मणा ते को नाम लाभः । भवान् एवंविधैः अनङ्गलेखचित्रफलकदर्शनप्रभृतिभिः विनोदानाम् शतैः धारितं धृतजीवनं जीवन्तं वा तथा च विशेषतः आलम्बिता कृता प्रार्थना येन तादृशं कामार्तं जनं अभिभवितुं पीडयितुं न जानीते इति अञ्जसा सत्यमेव । भवांश्च एतादृग्दयार्द्रहृदयो यत्कथमपि एतादृशैः विनोदैर्धृतदेहं जनं न पीडयतीति सत्यमेव । अतः भवतो मादृग्विधवधाधर्माधारणाय स्वीयदक्षिणत्वसंरक्षणाय च नापहरणीयो लेख इति प्रार्थ्यते ।

 अत्र श्लोके चूर्णकस्थस्य मलयानिलस्य हेतोः भवन्निति सर्वनामव्यपदेशः। चूर्णकस्थं भगवन्नितिपदं मलयानिलस्य महिम्नः द्योतनाय दीयते, यदि न चेतू प्रार्थ्यो जनो महान् तदा तु प्रार्थनमसाम्प्रतमेव स्यात् “याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा" इति न्यायात् ।

 वासस्तु गन्धः । सामान्यव्यपदेशात् सुवास एव, “वासितं सुरभीकृते" इति विश्ववचनाच्च ।

 अञ्जसा सत्यम् “तत्त्वे त्वद्धाञ्जसाद्वयम्" इत्यमरः । “अञ्जू व्यक्तौ" तस्मात् व्युत्पन्नत्वात् व्यकत्वं स्फुटत्वं सत्यत्वं वा अञ्जसापदवाच्यम् ।

 अत्र प्रथमचरणे "यत्पौष्पं रजः" इत्यत्र तच्छन्दाभावात् “यत्तदोर्नित्यसम्बन्धः" इति नियमविरुद्धत्वेऽपि “यच्छब्दस्योत्तरवाक्यगतत्वेनोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छन्दस्यार्थः" इति दर्पणकृतां वचनप्रामाण्यात् “आत्मा जानाति यत्पापम्" इतिवत् साधुत्वात् इह अभवन्मतसम्बन्धाख्यो दोषो न विभावनीयः। किन्तु तत्रैव "वासार्थम् हर" इत्यत्र ह्र (हर) हरणे" इति धातोः स्वाव्यवहितोत्तरत्वेन श्रूयमाणस्य लोटि मध्यमपुरुषैकवचनव्यञ्जकस्य सिप्प्रत्ययस्य सत्त्वात् "त्वम्पदं" "हरेत्यस्य" कर्तृत्वेनाध्याह्रियते । तथा च द्वितीयचरणे "भवतः" तथा च तृतीयचरणे "भवान्" इति पदप्रदानात् एकत्र एकस्यैव वुद्धिस्थप्रकारावच्छिन्नस्य मध्यमान्यपुरुषद्वयेन सम्बोधितत्वात् भग्नप्रक्रमतादोषापत्तिः । भग्नो विच्छिन्नः प्रक्रमः प्रस्तावः यस्मिन् इति भग्नप्रक्रमः। प्रस्तावश्चात्राकाङ्कक्षितप्रकारकोऽर्थः । यद् येन प्रकारेण प्राङ् निर्दिष्टं तस्य तत्प्रकारेणैव पश्चादनुक्तिरेव भङ्गः । दोषश्चायं राज्ञः सशोकावस्थां दर्शयन् गुणत्वं भजतां नाम ।

 "दयितास्नेहस्वहस्तेनेत्यत्र" हस्तस्य हृतेनेति पदेन व्यपदिश्यमानेन हरणव्यापारेण सहान्वयानुपपत्तौ, जाते च मुख्यार्थबाधेव तद्युक्ते "हस्तलेखे" “शोणो धावतीतिवत्" अजहत्स्वार्था हस्तलेखे हस्तसारोपणात् प्रेमातिशयप्रकाशनरूपप्रयोजनवती लक्षणा विधीयते । अनया लक्षणया च लेखे वस्तुत्वारोपात् तुल्यानुरागेति पद्ये उक्तेन "समागतमिव मन्ये" इति वचनेन समञ्जसत्वमेव ।

 अत्र च "समानशीलव्यसनेषु सख्यं" इति नियमात् कामुक एव कामुकस्य पीडां सुखं वा ज्ञातुं प्रभवति" यदि न चेदयं मलयानिलः कामुकः कथं वा पारयेद्विक्रमकामव्यथाम् ज्ञातुमिति सन्देहवारणाय समासोक्त्यलङ्कारभङ्ग्या कविवरो