पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
द्वितीयोऽङ्कः

  जानीते हि भवान्विनोदनशतैरेवंविधैर्धारितं
   कामार्तं जनमञ्जसाभिभवितुं नालम्बितप्रार्थनम् ॥ १९ ॥


व्यञ्जयति वायोः कामरसिकत्वम्ल । प्रथमं तु चूर्णक एव वसन्तसखेति विशेषणप्रदानेन काममित्रेण सहास्य सख्यं प्रदर्शितम् । पश्चाच्च “वीरुधां रजो हरेति" वाक्ये रजसस्तावन्नियतिनियमानुसारं पुष्पेषूत्पत्तिर्न खलु लतासु । तदा वीरुत्सु रजसारोपणेन तासु रम्यकामिनीत्वारोपः, जाते तु रजसि रमणीत्वप्राप्तेः । तदपि रजः पुनः सम्भूतं सञ्चितं तस्माच्च शासितयौवनत्वं तासु समारोप्यते । तथा च उत्तमत्त्वाच्च सुरभित्वमपि समीचीनमेव । अत इह वीरुधां स्त्रीलिङ्गलात्, मलयानिलस्य च पुंस्वात् रजोहरणक्रियया च, सम्यक्तया सङ्गच्छते पारस्परिककामिनीकामुकत्वम् । अनेन राज्ञश्च वायोश्च समानतया कामुकत्वं दृश्यते । कुतः प्रकृतनायिकायामपि देवाङ्गनात्वाद् सुरभिरजोवत्त्वं, पूर्णयौवनत्वात् सम्भूतरजोवत्त्वं च आलिङ्गते । अविद्यनानायां तु अस्यां समासोक्तौ तृतीयचरणगतजानातेः सम्यक् सम्बन्धो न सम्पद्यते । अधुना कामुकत्वस्य समानत्वात् वायुः कामार्तं नाभिभवितुं जानीत इति स्वकीयानुभवात् साधु सङ्गच्छते, परश्च जानातेरत्र आत्मनेपदप्रयोगस्तु निजानुभवस्मरणायैव विहित इति विद्वद्भिरुन्नेयः । तथाच "हिपदेन" प्रकाश्यमाना या निश्चयात्मकता सापि सम्यक् समासोक्त्यभावेऽनु- संहिता न भविष्यति । तेन चास्याः समासोक्त्याः जानातेरर्थोपपत्त्यै कारणत्वम् । ततश्च काव्यलिङ्गमलङ्कारो व्यज्यते । समासोक्तिलक्षणं तु “समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य च" इति कुवलयानन्दकृतम् । पुनश्च “धारितम्" अत्र घृतमित्यनूच्य ध्रियमाणार्थबोधनतया णिजन्तप्रयोगेण च विनोदनमात्रप्रभावेण यथाकथञ्चिद् धृतमित्यर्थं व्यनक्ति । अपि च कामार्तेति पदप्रदानेनामृतस्य मारणे शूरत्वं, न तु मृतमारणेति अर्थो बुध्यते । “शूराणां मृतमारणे न हि वरो धर्मः प्रयुक्तो बुधैरिति” नियमात् । पुनश्च यदि मृतस्यापि मारणमङ्गीकृतं चेत् तथापि शरणागतस्यातीवासाम्प्रतम्-तद्धेतोरेव आलम्बितप्रार्थनमिति ग्रहणम् । अत्र वायौ चेतनत्वधर्मारोपपूर्वकसम्बोधनात् (Apostrophe) समासोक्तिरलङ्कारः इति दिक् ।

 इह च कैश्चन चरमचरणे "कामार्तं जनमञ्जनां प्रति भवानालक्षितप्रार्थनः" इति पाठोऽङ्गीक्रियते । तेषां मते "अञ्जनां प्रति आलक्षितप्रार्थनः समीक्षिताभिलाषः" इत्यर्थप्रदानेन वायोः अपि कामुकत्वं प्रतिपाद्य स्वस्य अनुभवित्वाद् कामिनां क्लेशजनकत्वमनुचितमिति विशेषार्थः । तथा चेदं ज्ञाप्यते यत् कामवशवर्तित्वं तु भवादृशामपि दृश्यते तदा तु मत्पक्षे नायं दोषावह इति । वायोरञ्जनाकामुकत्वं प्रसिद्धं पुराणेषु-कस्मिंश्चित् समये प्लवङ्गकुञ्जरस्य कुञ्जराख्यस्य तनया (पश्चाद्धनुमन्माता) अञ्जना शिशिरानिलविहरणपरायणा मनोहारिणि नगरोपकण्ठे विलसन्ती आस । तत्र च तस्याः स्रस्तांशुकायाः कमनीयाङ्गसम्पदा निमेषनिपातनिर्दयेऽपि स्वनयेन सभाजयन् भगवान् गन्धवाहो मदनैकशरणामवस्थामवाप ।