पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
द्वितीयोऽङ्कः

[ एतेनैवोपचारेण तमप्सरःकामुकं प्रेक्षावहे।]

 चेटी-जं देवी आणवेदि । [यद्देव्याज्ञापयति । ]

( इति परिजनसहिते लतागृहं परिक्रामतः।)


 विदूषकः -भो वअस्स ! किं एदं पवणवसगामि पमदवणसमीवगदक्कीडापव्वदपज्जंते दीसदी ? [ भो वयस्य ! किमेतत्पवनवशगामी प्रमदवनसमीपगतक्रीडापर्वतपर्यन्ते दृश्यते ?]

 राजा-( उत्थाय ) भगवन् वसन्तसख मलयानिल !

वासार्थं हर सम्भृतं सुरभि यत्पौष्पं रजो वीरुधां


यदा कदापि राज्ञः समीपे गम्यते तदा किमपि पूजार्थं गृह्यते । “रिक्तहस्तेन नोपेयात् , राजानं देवतां गुरुमिति" मनूक्तेः । अतः इदानीं एतद् भूर्जपत्रमेव गृहीत्वा तं अप्सरःकामिनं पश्यावः । नायकविषये पट्टमहिषीमुखात् अप्सरःकामुकमिति विशेषणं इह क्रोधविषयित्वात् साधु । तञ्च परलुब्धत्वं अनर्थकारित्वं च सूचयति ।


 चेटी-यद्देवी आज्ञापयति-तथैवास्तु इति शेषः ।

(इति परिजनसहिते चेटीदेव्यौ लतागृहं परिक्रामतः प्रविशतः।)


 विदूषकः-भोः वयस्य ! किं एतत् भूर्जपत्रं पवनस्य वायोः वशात् गामी वायुवेगेनापह्रियमाणः प्रमदवनसमीपगतो यत् क्रीडार्थं पर्वतस्तस्य पर्यन्तभागे दृश्यते । किं वायुनापहृतं तद्भूर्जपत्रम्-इति आशङ्कते।


 प्रमदवनम्-विहारोचितस्थानम् । “विज्ञेयं प्रमदवनं नृपस्तु यस्मिन् शुद्धान्तैः सह रमते पुरोपकण्ठम्" इति हलायुधः ।


 राजा-(उत्थाय) भगवन् वसन्तसख ! मलयानिल! दक्षिणवायो ! "भगवन्" इति सम्बोधनेन वायोः प्रार्थ्यत्वं गम्यते । वसन्तसखेत्यत्र "राजाहःसखिभ्यष्टच्" इति सूत्रेण अकारान्तपदत्वम् ।


 वासार्थमिति-

 भावस्तु-सौगन्ध्यापेक्षया यदि त्वं कुसुमानां परागं हरति तत्तु त्वं हर किन्तु यत् मदीयदयितालिखितलेखं हरसि तत्तु अन्याय्यम् । तत्र न कोऽपि तव लाभ इति । परश्च यदि वायुर्विवेकहीनः स्यात् तदा कथं नाम तेनेदं विवेचनीयम् । तदर्थमेवाह -न खलु भवान् विवेकश्रान्तः । यतो ज्ञायते वायुना यत् विरहिणां कृते मदनलेखचित्रफलकादीन्येव समाश्वासनहेतवः ।

 वीरुधां लतानां सुरभि सुगन्धि सम्भृतं एकत्र सञ्चितं यत् पौष्पं पुष्पसम्बन्धि रजः परागः तत् त्वं वासार्थं सुगन्धार्थं हर । तत्र हरणे तु तव सुगन्धलाभः, चास्माकं न कापि क्षतिः । किन्तु मिथ्या अकारणं निष्प्रयोजनमेव हृतेन अपनीतेन मे मम दयितायाः प्रियायाः स्नेहस्वहस्तेन स्नेहसूचकेन स्वहस्तेन लिखितेन मदनलेखेन भवतः किं प्रयोजनम् ? न किमपीति भावः । अतः माद्दशवियोगि-