खल्वेतत् । हन्त, कथं देव्या एव नूपुरकोटिलग्नम् ! कथं वाच्यतामेतत् । ]
देवी-अवलोएहि दाव एदम् । जदि अविरुद्धं तदो सुणिस्सम् । [अवलोकय तावदेतत् । यद्यविरुद्धं तदा श्रोष्ये ।]
चेटी-( तथा कृत्वा ) भट्टिणि! तं एवं कोलीणं विअम्भदि भट्टारअं उद्दिसिअ उव्वसीअक्खरो कव्वबन्धो त्ति तक्केमि । अज्ज माणवअप्पमादादो अम्हाणं हत्थं आगदम् । [ देवि! तदेतत्कौलीनं विजृम्भते । भट्टारकमुद्दिश्य उर्वश्यक्षरः काव्यबन्धः इति तर्कयामि । आर्यमाणवकप्रमादादावयोहस्तमागतम् ।]
देवी-णं गिहीदत्था होहि । [ननु गृहीतार्था भव ।]
(चेटी वाचयति)
देवी-एदेण एव्व उवआरेण तं अच्छराकामुअं पेक्खमम्ह ।
निश्चये । हन्त ! इति विस्मये। कथमेतत् देव्या एव नूपुराणां कोटौ अग्रभागे एव लग्नम् । कथं वाच्यतामेतत् । इह "कथम्" शङ्कागर्भितेच्छायाम् ।
देवी-अवलोकय वाचय तावत् । यद्यविरुद्धं यदि हृद्यं भवेत् , तदा श्रोष्ये ।
चेटी-(तथा कृत्वा-वाचयिला) देवि ! एतत् तु कौलीनं लोकापवादः विजृम्भते अस्ति । किंवदन्तीयमिति भावः ।
"कौलीनं पशुभिर्युद्धे कुलीनत्वापवादयोः" इति धरणिः । भट्टारकं महाराजमुद्दिश्य उर्वश्याः अक्षराणि यस्मिन् सः उर्वश्यक्षरः उर्वशीलिखितः काव्यबन्धः कवितामयो मदनलेखः अयमस्ति इति तर्कयामि अनुमिनोमि ।
"भट्टारको नृपे नाट्यवाचा देवे तपोधने" इति मेदिनी। भटति "भट परिभाषणे आज्ञापने" (भा. प. से.) भट्टं स्वामित्वं ऋच्छतीति भट्टारः "कर्मण्यण्" । भट्टार एव भट्टारकः "स्वार्थे कन्" च ।
आर्यमाणवकस्य प्रमादात् अनवेक्षणात् अनवधानाद्वा आवयोर्हस्तं प्राप्तमिदं भूर्जपत्रम् ।
"प्रमादोऽन वधानता" इति त्रिकाण्डी ।
देवी-ननु इति आज्ञायाम् । गृहीतो ज्ञातः अर्थो यया तादृशी भव । किमस्मिन् लिखितं तत्तावद् विज्ञापय ।
(चेटी वाचयति यदत्र लिखितमिति)
देवी-एतेनैव उपचारेण अनयैव पूजया तमप्सरःकामुकं प्रेक्षावहे ।