सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७
द्वितीयोऽङ्कः

किं लतागृहं विशन्नार्यमाणवकसहायो दृष्टस्त्वया महाराजः ?]

 चेटी-अलीअं किं मए भट्टिणी विण्गविदपुवा ? [ अलीकं किं मया भट्टिणी विज्ञापितपूर्वा ? ]

 देवी-तेण हि लदाविडवन्तरिदा सुणिस्सं दाव वीसंभमंतिदाईं जं तुए कहिदं सच्चं ण वेत्ति । [ तेन हि लताविटपान्तरिता श्रोष्ये तावद्विश्रम्भमन्त्रितानि यत्त्वया कथितं सत्यं न वेति ।]

 चेटी-जं देवीए रुच्चदि । [ यद्देव्यै रोचते । ]

 देवी-(परिक्रम्य पुरस्तादवलोक्य च) णिउणिए ! किं णु एदं वत्तं णवचीअरं विअ इदो दक्षिणमारुदेण आणीअदि ? [निपुणिके ! किं नु एतत्पत्रं नवचीवरमिवेतो दक्षिणमारुतेनानीयते ? ]

 चेटी-(विभाव्य ) भट्टिणि! पडिवत्तणविभाविदक्खरं भुज्जवत्तं क्खु एदम् । हन्त, कहं देवीए एव्व णेउरकोडिलग्गम् (गृहीत्वा) कहं वाचीअदु एदम् । [ भट्टिनि ! परिवर्तनविभाविताक्षरं भूर्जपत्रं


दृष्टः ? अपीदं सत्यं यद्धि आर्यपुत्र इहैव वर्तत इत्यर्थः । 'हञ्जे' इति पदं शौरसेन्यामभिमतम् ।

 चेटी -मया भर्त्री देवी किं अलीकं मिथ्यैव विज्ञापितपूर्वा । किं मया यदुदितं तत् पूर्वं किं असत्यमासीत् कदापि । न हि-महाराजः इहैवास्तीति सत्यमेवेति तात्पर्यम् ।

 देवी-तेन हि अत एव, यत इदं सत्यमेवास्तीति कारणात् लताविटपे अन्तरिता गुप्ता अहं विश्रम्भे विश्वासपात्रे एकान्ते च मन्त्रितानि गुप्तविचारान् श्रोष्ये ।

 यत् वया कथितं तत् सत्यं न वा इति परिक्षितुं अहमिहैवात्मानं सङ्गोप्य श्रोष्यामि यद्रहसि महाराजेनालप्यत इति ।

 चेटी-यद्देव्यै रोचते । यथा देवी प्रीणाति तथैवास्तु । अत्र देव्यै इति चतुर्थी "रुच्यर्थानां प्रीयमाणः" इत्यनेन रुचतेः योगे।

 देवी-परिक्रम्यावलोक्य च इतस्ततः परिभ्रमन्ती विलोक्य च ।

 निपुणिके ! किं नु एतत् पत्रम् नवचीवरं मुनीनां परिधानमिव इतः अत्र दक्षिणमारुतेन दक्षिणदिशो वहता वायुना आनीयते । भूर्जपत्रमेतत् ।

 चीयते इति “छित्वरच्छत्वर -" (उ. ३१) इति सूत्रेण चीवरम् । “शाक्यभिक्षुप्रावरणमिति" सुभूतिः । नु इति प्रश्ने।

 चेटी-भर्त्रि ! परिवर्तनेन विभावितानि ज्ञातानि अक्षराणि यस्मिन्नेतादृग् भूर्जपत्रं खलु एतत् । वायुवेगेन चालितत्वात् ज्ञाताक्षरं भूर्जपत्रमित्यर्थः । खलु