सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
विक्रमोर्वशीये

 राजा-वयस्य ! केनेदानीं उन्मनसमात्मानं विनोदयामि । (स्मृत्वा ) उपनय भूर्जपत्रम् ।

 विदूषकः-(सर्वतो दृष्ट्वा सविषादम् ) हा कहं ण दिस्सदि । भो, दिव्वं क्खु तं भुजवत्तं गदं उव्वसीमग्गेण । [हा! कथं न दृश्यते । भोः ! दिव्यं खलु तद्भूर्जपत्रं गतमुर्वशीमार्गेण । ]

 राजा-(सासूयम्) सर्वत्र प्रमादी वैधेयः ।

 विदूषकः-णं विचिणु (उत्थाय) इदो भवे । एत्थ वा भवे । [ननु विचिनुहि । इतो भवेत्, अत्र वा भवेत् । ]

(इति विचेतव्यं नाटयति ।)

(ततः प्रविशत्यौशीनरी चेटी च विभवतश्च परिवारः।)

 औशीनरी-हञ्जे णिउणिए ! सच्चं किं लदाघरं विसन्तो अज्जमाणवअसहाओ दिट्ठो तुए महाराओ ? [हञ्जे निपुणिके ! सत्यं


 राजा-वयस्य ! सखे माणवक ! उन्मनसं विमनायमानं खिन्नं वा ममात्मानं इदानीं केन उपायेन विनोदयामि । कथं नाम खिन्नं मे मनः विनोदयितव्यम् इति पृच्छति । (स्मृत्वा भूर्जपत्रं स्मृतिमुपनीय ) उपनय भूर्जपत्रम्-उपनय देहि आनय वा।

 विदूषकः-(सर्वतः सर्वत्र दृष्ट्वा सविषादम् सखेदम् ) हा इति शोके- विस्मयगर्भितेन शोकेन ब्रूते-कथं न दृश्यते ! कुत्र तद्गतम् । अहं तु न कुत्रापि गतवान् । भोः ! तद्भूर्जपत्रं दिव्यमलौकिकम् तेन च उर्वशीमार्गेण गतम् । अत्र दिव्यत्वेन तस्मिन् सचेतनत्वं परिकल्प्यते । इदं विदूषकस्य वाक्पाटवम् ।

 राजा-(सासूयम्-तस्मिन् दोषमारोप्य-सक्रोधम् वा) सर्वत्र प्रमादी असावधानो वैधेयो मूढः । विधेयस्याधिकारी वैधयः इत्यण् ।

 "मूर्खवैधेयबालिशा" इत्यमरः । केचित् वैधेयपदेन नीचतां ख्यापयन्ति ।

 विदूषकः-ननु विचिनुहि-मार्गय तद्भूर्जपत्रम् । (उत्थाय ) इतः अत्र भवेत् वा तत्र भवेत् तत् भूर्जपत्रम् इति तद्वस्तु विचेतव्यं मार्गणीयं नाटयति दर्शयति ।

 (ततः औशीनरी उशीनरस्य राज्ञः गोत्रापत्यं स्त्रीति औशीनरी काशिराजदुहिता नायकस्य महिषी चेटी दासी च तथा च विभवतः खरूपानुरूपः परिवारः रङ्गभूमिं प्रविशति ।)

 औशीनरी-हले इति चेटी प्रति सम्बोधनम् । अयि निपुणिके ! किमेतत् सत्यं यत् त्वया आर्यमाणवकसहायः माणवकेन सह लतागृहं विशन् महाराजः