पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
द्वितीयोऽङ्कः।

अणुबंधं सिढिलीकरेदि । [ वयस्य ! एतदस्मि वक्तुकामः । मा भवानङ्गानि विमुञ्चतु । दृढं खलु त्वयि बद्धभावा उर्वशी । न सा इतो गत्वा एनमनुवन्धं शिथिलीकरोति । ]

 राजा-ममाप्येतदेव मनसि वर्तते । तया खलु प्रस्थाने-

अनीशया शरीरस्य हृदयं स्ववशं मयि ।
स्तनकम्पक्रियालक्ष्यैर्न्यस्तं नि:श्वसितैरिव ॥ १८ ॥

 {{bold|विदूषकः-(स्वगतम् ) वेवदि मे हिअअं केत्तिए वेलाए तस्स भुजवत्तस्स अत्तभवदा वअस्सेण णामं गेण्हिदव्वं त्ति ।

 [ वेपते मे हृदयं कस्यां वेलायां तस्य भूर्जपत्रस्यात्रभवता वयस्येन नाम ग्राह्यमिति ।]


हि त्वय्युर्वशी । खलु निश्चये । सा इतो गत्वा एनमनुबन्धमासक्तिं प्रीतिं वा न शिथिलीकरिष्यति न्यूनां करिष्यति । इह शिथिलीकरोतीति भाविनि अर्थे लट् ।

 राजा-समीचीनम् । मम मनसि अपि एतदेव अयमेव भावो वर्तते । तया खलु प्रस्थाने गमनवेलायाम्-चूर्णकस्थस्यास्य वाक्यार्धस्य वक्ष्यमाणश्लोकेनान्वयः-

 अनीशयेति-शरीरस्य स्वदेहस्यापि अनीशा अनीश्वरा तया स्वदेहस्यापि न प्रभवन्त्या तया स्ववशं स्वतन्त्रं हृदयं मयि स्तनयोः कम्पः तस्य च क्रिया तया लक्ष्यैरुन्नेयैरनुमेयैर्वा निःश्वसितैः श्वासैर्न्यस्तं स्थापितमिव । शरीरस्यानीशत्वमिन्द्राधीनत्वाद्वेत्यपरोऽपि पक्षः ।

 "अनीशया इति" चूर्णकस्थस्य तयेतिपदस्य विशेषणम् । अथवा शरीरस्य अनीशत्वम् इन्द्राधीनत्वात् । किन्तु हृदयन्तु स्ववशं स्वाधीनमेवासीत् । ततः स्वाधीनं हृदयं मयि स्थापितमिति वा भावः । किन्तु-

 मां प्रेक्ष्य कुसुमचापशरनिकरेण भृशं बाध्यमाना स्वीयदेहोपरि स्वामित्वमनुपलभमाना मय्येव खस्य हृदयं स्थापितवती । कथं स्थापितवतीति शङ्कायाम् उत्प्रेक्षते तावद्यत् तया वेगेन चलद्भिः श्वासैः इव स्थापितं स्वहृदयम् । ते च श्वासोच्छासाः कथं नामोन्नेया इति स्तनयोः कम्पनेनानुमेयमिदमभवत् यदभवत् तत्र वेगवत्तरा श्वासा इति । "न्यस्तमिवे"ति उत्प्रेक्षालङ्कारः । अनुष्टुब् वृत्तम् ॥ १८॥

 विदूषकः-(स्वगतम् ) मे हृदयं वेपते कम्पते, भीतत्वात् । कुतो भयमित्याह-कस्यां वेलायां तस्य प्रियाक्षरालीयुतस्य भूर्जपत्रस्य अत्रभवता मान्येन वयस्येन राज्ञा नाम ग्राह्यम् । भूर्जपत्रं तु नष्टम् । अतः एतदेव मे भयं यत् गृहीते तु तन्नामानि कुतो देयम् तत् पत्रमिति अतः हृदयं मे वेपते ।


 ८ विक्र०