(उर्वशी वियोगदुःखं रूपयित्वा राजानं पश्यन्ती सह सख्या निष्क्रान्ता ।)
राजा-(सनिःश्वासम् ) वैयर्थ्यमिव चक्षुषः सम्प्रति ।
विदूषकः-(पत्रं दर्शयितुकामः) णं भुज्ज-( इत्यर्धोक्तेनात्मगतम् ) अविद अविद भो, उव्वसीदसणविम्हिदेण मए तं भुजवत्तं पब्भट्टं वि हत्ताणो ण विण्णादम् । [ननु भूर्ज- । हा धिक् हा धिग् भोः । उर्वशीदर्शनविस्मितेन मया तद्भूर्जपत्रं प्रभ्रष्टमपि हस्तान्न विज्ञातम् ।]
राजा-किमसि वक्तुकामः ।
विदूषकः -वअस्स ! एदम्हि वत्तुकामो । मा भवं अंगाईं वि मुंचदु । दिढं क्खु तुई बद्धभावा उव्वसी । ण सा इदो गदुअ एदं
( उर्वशी वियोगदुःखं वियोगजन्यं दुःखं रूपयित्वा प्रदर्शयन्ती सख्या चित्रलेखया सह निष्क्रान्ता) अत्र नायिकानिर्गमो स्थायिनः रतेः परिपोषाय । इह च विप्रलम्भः शृङ्गारः, सम्भोगस्योपबृंहणे विप्रलम्भस्य हेतुत्वात् । “न विना विप्रलम्भेन शृङ्गारः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान् रागोऽभिवर्धते" इति न्यायात् ।
राजा-(वियोगजन्यदुःखस्य दुःसहत्वात् सनिःश्वासम् )
सम्प्रति अस्तायां तु नयनचन्द्रिकायां तस्यां, चक्षुषः वैयर्थ्यम् वृथात्वम् । निष्प्रयोजने एव नयने इदानीं, तयोर्दृश्याभावात् । अयमेवार्थो भवभूतिनापि निबद्धः-
असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनम् ।
अदर्पं कन्दर्पं जननयननिर्माणमफलं
जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ इति ॥
( मालतीमाधवे ५:३०)
विदूषकः-(पत्रं प्रियाक्षरालीविभूषितं भूर्जपत्रं राजानं समाश्वासयितुं दर्शयितुमिच्छति ।)
ननु इति शङ्कायां-भूर्ज-इत्यर्धोक्ते भूर्जपत्रादर्शनात् साशङ्कं मौनं धत्ते । (आत्मगतम्) अविदाविद भोः किमेतदाश्चर्यमापतितम् । उर्वशीदर्शनात् विस्मितेन चकितेन सम्भ्रान्तेन वा मया तत् उर्वशीलिखितं भूर्जपत्रं हस्तात् प्रभ्रष्टमपास्तं स्रस्तमपि न ज्ञातम् । अविदितमेव विस्मितस्य मे हस्तादपास्तं भूर्जपत्रमिति भावः।
राजा--किमपि विदूषकमुखनिर्गतं शब्दं निशम्याह-किमसि वक्तुकामः । वक्तुमिच्छसीति भावः ।
विदूषकः-चातुर्येण नष्टं भूर्जपत्रं विहाय किमप्यन्यदेव वदति ।
वयस्य ! एतदेव वक्तुं इच्छामि । भवान् अङ्गानि स्वीयसहिष्णुतां धैर्य वा मा विमुञ्चतु । धैर्य परिष्वजस्व । उर्वशी त्वयि बद्धभावा बद्धप्रेमा । आसक्ता -