पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
विक्रमोर्वशीये

  अलब्धफलनीरसं मम विधाय तस्मिञ्जने
   समागममनोरथं भवतु पञ्चबाणः कृती ॥ ११ ॥


 अन्यतरेणापि हेतुना तस्मिञ्जने मम समागममनोरथं सम्मेलनेच्छां अलब्धं अप्राप्तं यत्फलं तेन नीरसं निष्फलं विधाय पञ्चबाणः कृती स्वेप्सितसाधनपटुर्भवतु । यदि मम समागमाभिलाषः निष्फलत्वेन नीरसः भवेत्तदा तादृङ्नीरसतां समुत्पाद्य कामो निकामं सकामः स्यात् । यतः तद्विरहे तु नूनमहं पञ्चत्वं गमिष्यामि । तेन च सोऽपि कामः स्वीयबाणगतपञ्चत्वं माम् पञ्चत्वं गमयन् सार्थकं करोतु इति भावगाम्भीर्यमुद्दिश्येह तत्रभवता कविना कामवाचकानि अन्यानि पदानि अनादृत्य पञ्चबाणपदमेव खीकृतम् ।

 सरलार्थस्तु-आदौ तु तया ममेतादृशी विरहव्यथा अस्तीति नावगतेव दृश्यते यतः तया दर्शनप्रदानेन नाहं सम्भावितः। अथवा यदि तया स्वप्रभावविशेषेण मम प्रीतिर्ज्ञाता तदा तु सा 'अहं देवाङ्गनाऽस्मि कथमिमं मानुषं वृणोमीति' विचार्य मामवगणयति । यदि अनयोरन्यतरोऽपि सत्यः स्यात् तस्याश्च मे सङ्गमो न भवेत्तदा तु कामदेवो माम् पञ्चत्वं प्रापयन् स्वस्य पञ्चबाणत्वं सफलीकरोतु नाम, यतोऽतः परं तस्याः समागमं विना मम जीवधारणमध्रुवमेव इति ।

 अलब्धफलत्वात् नीरसमिति अलब्धफलनीरसम् । कृतमनेनेति कृती ।

 अत्र पूर्वार्धे तस्या इहागमनाभावस्य कारणे सन्देहात् ससन्देहालङ्कारः। तथात्र अलब्धफलनीरसमित्यत्र फलाप्राप्तौ तु मरणमेव शरणं स्यात् तेन च पञ्चबाणस्य बाणपञ्चकस्वीकरणं सफलमेव स्यादिति फलध्वनिः । पुष्पधन्वनः पञ्चबाणाः- "अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः" इति । अथवा "सम्मोहनोन्मादनौ च शोषणस्तपनस्तथा । स्तम्भनश्चेति कामस्य पश्च बाणाः प्रकीर्तिताः" । अत्रोपायान्तरदर्शनाभावात्तपनं नाम प्रतिमुखसन्ध्यङ्गम् । यदाह विश्वनाथः- "उपायादर्शनं यच्च तपनं नाम तद्भवे"दिति ।

अत्र पृथ्वी वृत्तम्-यदुक्तम् “जसौ जसलया वसुग्रहयतिश्च पृथ्वी गुरुः"। जगणसगणौ जगणसगणयगणाः लघुरेको गुरुश्च यत्र भवन्ति तत् पृथ्वी नाम छन्दः । तथा अत्र अष्टभिस्ततो नवभिर्विरामः कार्यः । पद्येऽस्मिन् पृथ्वीवृत्तलक्षणसमन्वये विहिते द्वितीयचरणस्य यतिविच्छेदस्तावदेवं भवति यथा-

 प्रभावविदितानुरागमवमन्यते वापि माम् ॥

 इह पूर्वभागस्याष्टाक्षरत्वमुत्तरस्य च नवाक्षरमयत्वम् । 'अनुरागपदे' च एकस्य गकाराक्षरस्योत्तरभागे समावेशादत्र यतिभङ्गाख्यो दोषः, यथा पिङ्गलनागप्रोक्ते यतिर्विच्छेदेति सूत्रे (६१) भट्टहलायुधेन स्मृतं यत् “क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत्, यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ" इति । अत्रापरभागस्तु एकवर्णक एव । अस्य च दोषस्य "अपि माषं मषं कुर्याच्छन्दोभङ्गं न