चित्रलेखा-सहि, सुदं तुए वअणम ? [ सखि ! श्रुतं त्वया वचनम् ?]
उर्वशी-सुदम् । ण उण पज्जत्तं हिअअस्स । [श्रुतम् । न पुनः पर्याप्तं हृदयस्य ।]
विदूषकः-एत्तिओ मे मदिविहओ । [एतावान् मम मतिविभवः ।]
राजा-(सनिःश्वासम् )
नितान्तकठिनां रुजं मम न वेद सा मानसीं
प्रभावविदितानुरागमवमन्यते वापि माम् ।
हरिणीवृत्तम्-लक्षणं तु यथा “'रसयुगहयैन्सौभ्रोस्लौ गो यदा हरिणी तदा" इति । षड्भिस्ततश्चतुर्भिस्ततः सप्तभिर्यतिः । यदा नगणसगणौ मगणरगणौ सगणः लघुर्गुरुश्च भवन्ति तदा हरिणी नाम छन्दः स्यात् । वृत्तमिदं परमेव हृदयव्यथाव्यजकम् भाव्यरसानुरूपम् ॥ १० ॥
चित्रलेखा-सखि ! श्रुतं त्वया वचनम् । यत्त्वद्विरहेण कियान् कातरोऽयं महाभागः।
उर्वशी-श्रुतम् । किन्तु मम हृदयस्य पर्याप्तम् न । तथापि असन्तुष्टं हृदयम् । अधिकं श्रोतुमिच्छामीति तस्या आकृतम् ।
विदूषकः-एतावान् एव मम मतिविभवः विचारशक्तिः । अतःपरं नाहमुपायान्तरं चिन्तयितुं शक्नोमि ।
राजा-सनिःश्वासम्-व्यथां व्यञ्जयन्-
नितान्तेति- स्वप्रियामेवाधिक्षिपति नायकः तस्या निर्दयित्वशंसनात् । सा तत्रभवती उर्वशी मम मानसीं मनोभवां नितान्तं कठिनां दुःसहां रुजं व्यथां न वेद ज्ञातवती । यदि अभविष्यत् सानुकम्पा सा तदा तु जानन्ती ममेतादृशीं विरहव्यथां अवश्यमेव दर्शनं मह्यमदास्यदेव । तेनेत्यमनुमिनोमि यत् तया मम व्यथा एव न ज्ञाता । अपरः कल्पः-अथवा सा तु देवाङ्गना । ज्ञातुं प्रभवति स्वप्रभावात् मन्मनोव्यथाम् । तेन च सा खप्रभावेण विदितः अवगतः अनुरागः प्रेम यस्य सः एतादृशं माम् अवमन्यते तिरस्करोति मम अवहेलनां वा करोति । यदि तया ज्ञातं तस्या कृते ममायमनुराग इति तथापि च दर्शनेन मां न सम्भावयति तदा तु सा अवश्यमेव मां न्यग्भावयति । यदि सा अपि मामित्थमेवाभि(वाञ्छति)लष्यात् तदा तु नावगणिष्यदेव माम् इति भावः। अपरार्धेनात्मनो नैराश्यमसूचयत्-