उर्वशी-(सहर्षम् ) हीणसत्त हिअअ! समस्सस समस्सस । [हीनसत्त्व हृदय ! समाश्वसिहि समाश्वसिहि ।]
राजा-तदुभयमप्यनुपपन्नम् ।
हृदयमिषुभिः कामस्यान्तःसशल्यमिदं सदा
कथमुपलभे निद्रां स्वप्ने समागमकारिणीम् ।
न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां
मम नयनयोरुद्वाष्पत्वं सखे न भविष्यति ॥ १० ॥
उर्वशी-सहर्षम्-राज्ञा चिन्त्यमाना प्रिया अहमेवास्मि नान्येति सहर्षम् कुतः अन्यनारीशङ्कासमाधानात् । श्रुत्वा त्विदं वचनम् उत्तम्यदात्मनो हृदयं तदा सा सम्बोधयति । रे हीनसत्त्व, अधीर ह्रदय, किञ्चित् समाश्वसिहि समाश्वसिहि । विश्रब्धं भव । धैर्य धर । शान्तिं लभस्व ।
राजा-तदुभयमप्यनुपपन्नम् । माणवकं प्रति इयमुक्तिः । मया प्रदर्शितमुपाययुग्मं अपि अनुपपन्नम् अनुचितम् असम्भवात् । नान्यतरोऽपि कर्तुं शक्यत इत्युपपादयितुं तत्र हेतुं दर्शयति-
हृदयमिति-हे सखे मित्र ! कामस्य मनोजस्य इषुभिर्बाणैः इदं मदीयं हृदयं सदा सर्वकालं अन्तःसशल्यं व्यथितमस्ति । अस्यां दशायाम् स्वप्ने प्रियया सह समागमकारिणीम् निद्रां कथमुपलमे प्राप्नोमि न कदापीति भावः । यदा मम हृदयं मनोजपीडितं वर्तते तदा कथं निद्रामहं लप्स्ये इति सारः । अनेन पूर्वार्धेन विदूषकेण प्रदर्शितस्तावद् प्रथमोपायो निराकृतः । सुन्दरं वदनं मुखं यस्याः सा तादृशीं सुमुखीं प्रियां आलेख्ये चित्रफलके लेखनविधौ असमाप्य मम नयनयोरुद्वाष्पत्वं प्रादुर्भूताश्रुत्वं न भविष्यतीति न, अपि तु भविष्यत्येव । चित्रफलके यदि अहं तस्याः प्रतिकृतिं लिखामि तदा यावता समयेन लेखनविधिः समाप्तिं गमिष्यति तस्य पूर्वमेव मम नयनाभ्यामश्रुपातः न निर्गमिष्यतीति न, अपि तु लिखतः एव मम नयनाभ्यामश्रुवृष्टिर्भविष्यति तेनाहं प्रतिकृतिमपि समापयितुं न पारयामि । अनेन द्वितीयश्चाप्युपायः अपाकृतः । तात्पर्यं तु-व्यथितचेतसः पुरुषस्य निद्रागमनमसम्भवम् । अश्रुनिरुद्धनेत्रस्य प्रतिमालेखनमपि न घटत इति ।
अन्तःसशल्यमिति । शल्यं नाम शङ्कुः कण्टकम् वा “शल्यं तु न स्त्रियां शङ्कौ" इति मेदिनी । शल्येन सह इति सशल्यम् अन्तः सशल्यमिति अन्तःसशल्यम् विद्धम् इति पर्यायः । उद्बाष्पत्वम्-बाष्पम् अश्रु । उद्गतानि बाष्पाणि ययोरिति उद्बाष्पे तयोर्भावः उद्बाष्पत्व निर्गताश्रुत्वम् ।
बाष्पम्-बाध् निरोधे। निरोधार्थकबाध् धातोः षः प्रत्ययः । तस्मात् बाष्पमिति रूपम् “खष्पशिल्पशष्पबाष्परूपपर्पतल्पा" इति वचनप्रामाण्यात् ।(उणादिके तृतीयपादे अष्टाविंशतितमम् सूत्रम् ।)