उर्वशी-एसो मे अवहत्थिदलज्जो व्यवसाओ।[एषो ममापहस्तितलज्जो व्यवसायः।]
चित्रलेखा-सहि ! तधा वि संपधारीअदु दाव । को उण सहीए तहिं पढमं पेसिदो ? [ सखि ! तथापि सम्प्रधार्यतां तावत् । कः पुनः सख्या तत्र प्रथमं प्रेषित्तः ?]
उर्वशी-णं हिअअम् । ( ननु हृदयम् ।)
चित्रलेखा-को णु तुमं णिओजेदि ? [ को नु त्वां नियोजयति ?]
उर्वशी-मअणो क्व मंणिओजेदि । [मदनः खलु मां नियोजयति ।]
चित्रलेखा-अदो अवरं णस्थि मे वअणम् । [अतः अपरं नास्ति मे वचनम् ।]
उर्वशी-एष अयमेव अपहस्तिता दूरीकृता लज्जा यस्मादिति तादृशो व्यवसायो विचारः कर्म । नायिकायाः स्वयमभिसरणरूपोऽयं निर्लज्जो मदीयो व्यवहारः । अर्थात् यत्त्वयोक्तं तत् साधु । अहं नत्रैव तत्सकाशं प्रस्थिताऽस्मि । अत्र मदनव्यापारानुरोधात् नाविकायाः स्वयं अभिसरणात् उर्वश्या अभिसारिकात्वं गम्यते, यल्लक्षणं रूपके-"कामार्ताऽभिसरेत्कान्तं सारयेद्वाभिसारिका" इति ।
चित्रलेखा-सखि : यद्यपि त्वया व्यवसितमिदमङ्गनाजनविरोधि तथापि सम्प्रधार्यतां विचार्यतां तावत् यत् सख्या त्यया प्रथममादौ त्दादागमनविज्ञापनाय को जनः प्रेषितः।
उर्वशी -ननु हृदयम् हृदयमेव मया आदौ मदागमनविज्ञापकं प्रेषितम् । ननु निश्चये । निश्चयेन वच्मि यन्मे हृदयादृते नान्यः कोऽप्यत्र कर्मणि प्रणिधिः अस्तीति भावः।
चित्रलेखा-को वा नियोजयति- त्वां कः पुनः प्रेरयति ?
उर्वशी-मदनः खलु कामः मां नियोजयति प्रेरयति । अत्र “एष मे अपहस्तितलज्जो व्यवसायः" इति मुक्तात्मश्लाघनात्, “मदनो मां नियोजयतीति" वचसा स्वमनोवृत्तः अचञ्चलत्वख्यापनात् धैर्याख्यः प्रमदानां सात्त्विकभावमुल्लिख्य अयत्नजो नायिकालङ्कारः प्रोक्तः, यल्लक्षणं दशरूपके-"चापलाविहता धैर्यं चिद्वृत्तिरविकत्थना" इति ॥
चित्रलेखा-अतःपरं नास्ति मे वचनमुत्तरम् । यदीदं चेत् अनुत्तराऽस्मि ।
६ विक्र०