पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
विक्रमोर्वशीये

 चित्रलेखा-सहि उव्वसि ! कहिं क्खु अणिदिट्टकालणं गच्छीअदि ? [ सखि उर्वशि! कुत्र खलु अनिर्दिष्टकारणं गम्यते ?]

 उर्वशी-(मदनवेदनामभिनीय सलज्जम् ) सहि ! हेमऊडसिहरे लदाविडवान्दरे लग्गा वैजअन्तिआ मोआवेहि त्ति भए भणिदा उवहसिअ मं भणासि दिढं क्खु लग्गा ण सक्का मोआविदुम् । दाणिं पुच्छसि कहिं अणिदिट्टकालं गच्छीअदि त्ति । [सखि ! हेमकूटशिखरे लताविटपान्तरे लग्ना वैजयन्तिका मोचयेति मया भणिता उपहस्य मां भणसि दृढं खलु लग्ना न शक्या मोचयितुम् । इदानीं पृच्छसि कुत्रानिर्दिष्टकारणं गम्यत इति ।]

 चित्रलेखा-किं णु तस्स राएसिणो पुरूरवस्स सआसं पत्थिदासि ? [किं नु खलु तस्य राजर्षेः पुरूरवसः सकाशं प्रस्थितासि ?]


 अत्र च नायिकया मेलने जाताशस्य संभोगाकाङ्क्षिणः नायकस्य स्थितिवर्णनेन विलासं नाम प्रतिमुखसन्ध्यङ्गम् । यदुक्तं दर्पणे-"समीहा रतिभोगार्थो विलास इति कीर्तितः" । प्रसादाख्यो गुणः ।

 अत्र च द्रुतविलम्बिताख्यं वृत्तम् । यदुक्तम् “द्रुतविलम्बितमाह नभौ भरौ" पादान्ते च यतिः ॥ ९ ॥

 (इति विचारयन् मदनोत्सुकः मदनपीडितः तिष्ठति । ततः आकाशयानेन गगनमार्गेण उर्वशी च चित्रलेखा प्रविशति ।)

 चित्रलेखा-सखि उर्वशि! कुत्र खलु अनिर्दिष्टकारणं अनिश्चितकारणं अकारणं वा गम्यते ? त्वं कारणं विनैव क्व गच्छसीति भावः ।

 उर्वशी-(मदनजन्यां वेदनां पीडां अभिनीय प्रकटयन्ती सलज्जम् ) सखि ! हेमकूटशिखरे लतानां विटपो वितानं तदन्तरे तन्मध्ये लग्ना वैजयन्तिका मदीया एकावली तां मोचय इति मया भणिता उक्ता त्वं उपहस्य हास्यं कृत्वा मां भणसि प्रोक्तवती यत् इयं दृढं कठिनं यथा स्यात्तथा लग्ना अत एव मोचयितुं न शक्या इति वदन्त्यपि त्वं इदानीं पृच्छसि कुत्र अनिर्दिष्टकारणं विशेषकारणं विनैव गम्यते गच्छसि । भणसीत्यत्र भूतार्थे लट् ।

 आदौ तावत् विक्रमं विहाय दूरं गमनप्रवृत्तायां तस्यां तदीयैकावली लतायां यदा रुद्धा तदा चित्रलेखा व्यहसत् यदमोच्येयम् । तदेवोर्वशी तां स्मारयति यत्कथं त्वमधुना जानत्यपि दुर्मोच्यत्वं तस्या, इदं पृच्छसि यत्क्वाकारणं गम्यत इति भावः अनेन नायिकायाः स्वालम्बने प्रेमातिशयो द्योत्यते ।

 चित्रलेखा-किं त्वं तस्य राजर्षिणः पुरूरवसः विक्रमस्य सकाशं समीपे प्रस्थितासि प्रचलिताऽसि ? तमुद्दिश्येदं गमनं त्वदीयं किमिति भावः । नु इति प्रश्ने।