पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
विक्रमोर्वशीये

 उर्वशी-तेण आदेसदु मे सही मग्गं जेण तहिं गच्छन्तीए ण अन्तराओ भवे । [तेन आदिशतु मे सखी मार्गं येन तत्र गच्छन्त्याः नान्तरायो भवेत् ।]

 चित्रलेखा-सहि ! वीसद्धा होहि । णं भअवदा देवगुरुणा अवराइदं णाम सिहावन्धणं विजं उवदिसंतेण तिदसपडिवक्खस्स अलंघणीआ कदे म्ह । [ सखि विस्रब्धा भव ! ननु भगवता देवगुरुणा अपराजितां नाम शिखाबन्धिनी विद्यामुपदिशता त्रिदशप्रतिपक्षस्य अलङ्घनीये कृते स्वः।]

 उर्वशी-(सलज्जम् ) ताए पओअं सव्वं सुमरेसि ? [ तस्याः प्रयोगं सर्वं स्मरसि ?]

 चित्रलेखा-सहि ! हिअ एवं सव्वं जानादि । [सखि ! हृदयं एतत् सर्वं जानाति । ]

(उभे भ्रमणं रूपयतः)

 चित्रलेखा-सहि ! पेक्ख पेक्ख । एदं भअवदीए भाईरहीए


 उर्वशी-तेन यतस्त्वं निरुत्तरा सम्पन्ना तं मार्गमादिशतु प्रदर्शय येन तत्र विक्रमसन्निधौ गच्छन्त्याः मम पथि कोऽपि अन्तरायो विघ्नभूतो न भवेत् ।

 चित्रलेखा-सखि ! विस्रब्धा भव विश्वस्ता स्वस्थचित्ता भव । ननु सम्प्रधारणे । भगवता पूज्येन देवगुरुणा बृहस्पतिना अपराजितां नाम शिखां बध्नातीति शिखाबन्धिनी तां विद्यां उपदिशता प्रयच्छता आवाम् त्रिदशानां देवानां प्रतिपक्षाः शत्रवः दैत्यास्तेषामलङ्घनीये जेतु मशक्ये कृते । तात्पर्यं तु-भगवता गुरुणा अस्मान् अपराजितानाम्नी विद्या शिक्षिता । तस्याश्च प्रभावेण दैत्याः अस्मान् जेतुं न प्रभवन्ति । तदेवोच्यते यदावाम् अपराजितां विद्यां पाठयता गुरुणा दैत्यानामवशंवदे कृते इति भावः । अपराजिता तु-यया विद्यया अथवा यस्या विद्यायाः प्रभावात् न केनापि पराजेतुं प्रभूयते इति अपराजिता- सरलतया तु, यया केनापि पराजितो न भवतीति भावः ।

 उर्वशी-(सलज्जम् ) तस्याः विद्यायाः प्रयोगं विधिं सर्वं स्मरसि । अपि जानासि कथं प्रयोक्तव्या सा विद्येति । सामान्यमपीदं प्रश्नवाचकं वाक्यम् ।

 चित्रलेखा-सखि ! इदं हृदयं (मदीयं) सर्वं एतत् विधानं जानाति । ज्ञायते मया तस्याः प्रयोगविधिः ।

(उभे उर्वशीचित्रलेखे भ्रमणं आकाशे चङ्क्रमणं रूपयतः।)

 चित्रलेखा-सखि उर्वशि! प्रेक्षस्व प्रेक्षस्व पश्य पश्येति कौतूहले वीप्सा ।