[एष पुनः प्रियवयस्यः धर्मासनसमुत्थितः इत एव आगच्छति । तद्यावत् पार्श्वपरिवर्ती भवामि ।]
(इति निष्क्रान्तः।)
प्रवेशकः।
(ततः प्रविशति उत्कण्ठितो राजा विदूषकश्च ।)
राजा-
आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् ।
बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन ॥ २॥
तस्य समीपे गच्छामीति भावः। पुनरित्यत्र अवधारणे निश्चये वा । यतः “स्युरेवं पुनर्वैवेत्सवधारणवाचकाः" इत्यमरः।
(इति विचार्य निष्क्रान्तो विदूषकः।)
प्रवेशक:-
आविदूषकप्रवेशोऽयं सन्दर्भः प्रवेशकः इत्याख्यायते । द्वितीयाङ्के प्रवेशयतीति प्रवेशकः । पञ्चसु अर्थोपक्षेपकेषु अन्यतमोऽयम् । यदुक्तं दर्पणे "प्रवेशकोऽनुदात्तोक्त्या नीचपात्रैः प्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥" अस्य प्रवेशकस्य प्रथमाङ्केऽन्त्ये च प्रतिषेधः । यथा दशरूपकटीकाकृतः "नासूचितस्य पात्रस्य प्रवेशः क्वचिदिष्यते। प्रवेशं सूचयेत्तस्मात् अमुख्याङ्के प्रवेशकात् ।" इति ।
(ततः प्रवेशकानन्तरं उर्वशीविषयमुत्कण्ठितो राजा विदूषकश्च प्रविशति ।)
राजा-आ दर्शनादिति-आदर्शनात् उर्वशीदर्शनसमयादारभ्य सा उर्वशीनामधेया विलक्षणरूपशालिनी सुरलोकसुन्दरी देवाङ्गना मे हृदयम् प्रविष्टा । प्रवेशस्यावकाशापेक्षित्वात् हृदयस्य च निरवकाशत्वात् कथं तत्र प्रवेशः इतीवोत्प्रेक्ष्यते-मकरकेतोः मीनध्वजस्य कामस्य अवन्ध्येन अवन्ध्यः सफलः पातः यस्य सः तादृशा अमोघेन बाणेन कृतमार्गमिव हृदयं सा विवेश । तस्या प्रवेशार्थं कामेन मम हृदि द्वारमिव कृतम् । तस्याः दर्शनेन कामोद्दीपनमभूत् । तेन च कामदेवेन स्वीयः शरः प्रक्षिप्तः । तेन हृदये बिलं कृतम् । तस्मात् सा प्रविष्टा इत्यर्थः। यस्मात्समयात् सा अप्सरा दृष्टिगोचराऽभूत् ततः प्रभृत्येव कामदेवेन तस्या एव प्रवेशार्थं कृतबिले मम हृदये सा गाढं प्रविष्टा; सर्वत्र सैव दृश्यते इति भावः।
आदर्शनादित्यत्र-"आङ् मर्यादाभिविथ्योः" इति सूत्रेण अभिविध्यर्थे आङ्निर्देशः। मकरः केतौ यस्येति मकरकेतुर्मदनः। कृतमार्गं कृतः प्रवेशमार्गो यस्मिन् तदिति । अत्र बाणेन कृतमार्गं हृदयमिति सम्भावनात् उत्प्रेक्षालङ्कारः । अनेन राज्ञः अव्यवस्थितचित्तत्वं, तस्यां गाढं प्रेम च स्फुटीकृतम् । उर्वश्यालम्बनस्य राज्ञः स्मृत्यादिस्मरदशाः यथास्थानं विद्वद्भिरूह्याः । इत्यतः बिन्दुप्रयत्नयोः समवायात्मकः प्रतिमुखसन्धिः प्रारप्स्यते । अत्र प्रथमाङ्कोपदर्शितस्य नायकनायिकासमागमजन्यानुरागरूपवीजस्य चेटीविदूषकद्वारा ज्ञेयत्वात् तस्य च चेटीत