विदूषकः-(कर्णं दवा) एसो उण पिअवअस्सो धम्मासणसमुत्थिदो इदो एव आअच्छदि । ता जाव पासपडिवत्ती होमि ।
प्रातः भगवान् भानुः पूर्वतः (क)स्थानात् उदेति क्रमेणोन्नमति च यावत् (ख)स्थाने खस्वस्तिकं (Zenith) प्राप्नोति । (क)स्थाने सूर्यः आरोहणस्य शून्यांशे भवति, (ख)स्थाने च नवत्यंशेषु भवति, (ख)स्थानञ्चारोहणस्य परमावधिः, ततो दिगंशक्रमेणावतरति प्रतीचीं; (ग)स्थानमवाप्यास्तमेति यत्राशीत्यधिकशतांशे भवति । सिद्धान्ते पूर्वोक्तपद्याभ्यां गणितशास्त्रमर्यादया सिद्धं यत् यदा भास्करः नवत्यंशे गच्छति, तत्र किञ्चित्कालं उन्नतांशाः दिगंशाश्च समाना एव भवन्ति, अतः स्तब्धगतिः सूर्यस्तत्र विरमतीति भावः । अयमेवार्थः वैज्ञानिकमतेनापि चलद्रव्यतन्त्रानुसारं (Per Dynamic Laws) सुसङ्गत एव-यथा किमपि चलद्रव्यं चलनक्रमे शक्त्या दिशमेकां अवाप्य यदा प्रतीपं निवर्तते तदावश्यमेव तस्य गतिरोधो भवत्येव-यथा घटीयन्त्रेऽपि लोलकः (Pendulum) शक्तिमनुरुध्य एकतो गत्वा यदा प्रतिनिवृत्तो भवति, तदा तस्य गतिः क्षणं रुद्धा भवत्येव, यद्यपि क्रमस्तु असंलक्ष्य एव । अपि च यदा कन्दुकः आकाशे क्षिप्तः सन् यावद्वेगानुसारमारोहति, ततश्च भुव आकर्षणशक्त्या यदाधः पतति, तदा प्रतीपगतिप्रारम्भपूर्वं क्षणं गतिरोधो नूनं भवति । एवमेव आरोहतो भगवतो दिनकृतोऽधः पतनात् पूर्वं गतिरोधो भवतीति निःसन्दिग्धम् । तत्त्वमिदमष्टादशस्वपि ज्योतिःसिद्धान्तग्रन्थेषु त्रिप्रश्नाधिकारे राद्धान्तितं यत् चलतो वस्तुनो गमनागमनयोर्मध्ये गतिस्तम्भो भवति । पुराणेष्वपि स्मर्यते यत्---
"प्रविश्य भानुः स्वां छायां शङ्कुवद्यत्र तिष्ठति । स कालः कुतुपो नाम मन्दीभूतस्य संज्ञया।" इति भविष्यत्पुराणे-(स्वछायाप्रवेशस्तु नवत्यंश एव।)--
इत्यनेन निर्विवाद एवायं यत् भगवान् सहस्रदीधितिः मध्याह्ने विरमति; अतो राज्ञापि सवित्रा तुल्योद्योगित्वात् विरामो मध्याहे विधेयः इति उभयोरौपम्यभावः सुसाम्प्रत एवेति प्राचां मते । नव्यनये तु इदानीन्तनानां विचारवीथीं नेदं तत्त्वमवतरेत्, तैस्तु इदमेव मन्येत यदिदं केवलं दृशोर्भ्रमविलसितमेव (Optical Delusion); तद्यथा सन्ततगतेः सप्तसप्तेः गतिपरिवर्तनवेलायां चलन्नपि सूर्यः मन्दत्वात् स्थित इव भायात् । परमानुभविना च कविना यथा लोकैः प्रतीयेत, तदेवानुसृत्य तिष्ठतेः प्रयोगो विहितः इत्याधुनिकानां प्रायोऽभिप्रायो भवेत् । तेन चास्मिन् मते यथा मध्याह्ने मन्दत्वात् तिष्ठन्निति प्रतीयमानः सविता वस्तुतश्चलन् भवति, एवमेव सततं कार्यव्यापृतेन राज्ञा विरतिसमयेऽपि निजव्यापारं विदधता प्रजानां हिताय जरीजाग्रतैवानिशं भवितव्यमिति ध्वनिरत्र चमत्करोतीति दिक् ॥
अनेन भगवतः सूर्येण सदृशत्वं राज्ञो व्यज्यते । श्लेषालङ्कारश्च । मन्दाक्रान्तावृत्तम् । लक्षणं तु-"मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्" इति वृत्तरत्नाकरे ॥१॥
विदूषकः-(कर्णं दवा-श्रुला) एषः प्रियवयस्यो राजा धर्मासनात् समुत्थितः इत एव आगच्छति, तद्यावत् अतः तस्य पार्श्वपरिवर्ती निकटवर्ती भवामि ।