पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
द्वितीयोऽङ्कः ।

  तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये
   षष्ठे काले त्वमपि लभसे देव विश्रान्तिमह्नः ॥ १॥


 एकः ज्योतिषां नक्षत्राणामधिपतिः सूर्यः व्योममध्ये आकाशमध्ये क्षणं क्षणपर्यन्तं तिष्ठति विरमति । मध्याह्ने सूर्यः गगनमध्ये क्षणं विरमति । तुल्योद्योगयोरुभयोर्युवयोर्मध्ये एकः सविता तु विरमति । एवमेव समायाते तु व्योममध्ये भगवति अंशुमालिनि त्वमपि अह्नः दिवसस्य षष्ठे काले मध्याहे विश्रान्तिं राजकीयकार्याद् विरामं लभसे प्राप्नोपीत्यर्थः । यथा सवितुस्तव च तमःप्रतीकारे तुल्योद्योगत्वम् तथैव मध्याह्ने विरामेऽपि साम्यम् भवितुमर्हतीति सारः। मध्याह्नसमयः समायातः; इदानीं सभाविसर्जनं विधाय विश्रान्तिः कार्या देवेनेति वैतालिकः समयसूचनपूर्वकं प्रार्थयति । यतः षष्टे काले दिनस्य, राज्ञा विरतिः कार्येति नीतिविद्वद्वरैश्चाणक्यप्रभृतिभिः समुपदिष्टम् “षष्ठे स्वैरविहारो मन्त्रो वा सेव्यः" इति । व्यवहारदर्शनान्तरं स्नानभोजनादि कर्तव्यम् । यथाह भगवान् याज्ञवल्क्यः- “व्यवहारांन्ततो दृष्ट्वा स्नात्वा भुञ्जीतकामतः"। दिनञ्च द्वादशभागेषु विभक्तः।

 गगनमण्डलमतिक्रामति भगवति गभस्तिमालिनि, पूर्वदिक्तः प्रस्थानानन्तरमुदीचीं दिशं यावत्प्राप्नोति भगवानादित्यस्तावदधिरोहत्येव, अर्थात् प्राचीतः उदीचीपर्यन्तं उन्नतिं गच्छति, ततः उदीच्याः प्रस्थानादूर्ध्वं प्रतीचीपर्यन्तमवतरति । उदयाचलात् उन्नमन् सूर्यः उदीचीदिशं अवाप्य स्वस्वस्तिकं (उन्नततमं देशं-- Altitude) अधिगच्छति, पश्चाच्चावतीर्णो भवति । उन्नतांशं दिनपतिः मध्याह्ने एव प्राप्नोति । तत्र च उन्नतांशाः दिगंशाश्च ईषन्कालपर्यन्तं द्वित्रिमुहूर्तं समाना एव भवन्ति, अतस्तावत्कालपर्यन्तं भगवान् विभावसुः स्तब्धगतिर्भवतीति खगोलनये निर्णीतम्-यदुक्तं सूर्यसिद्धान्ते-“अक्षक्रान्तिभुजज्याघातोऽक्षक्रान्तिकालकोज्यानां। घातेन संयुतः स्यादुन्नतभागज्यकेष्टनतकाले ॥ (२-१९)।" इति पद्येनोन्नतांशाः विरता भवन्तीति गम्यते, तत्रैव च स्वस्वस्तिकं प्राप्य "क्रान्तिज्याऽक्षोर्नत्योर्भुजाशिञ्जिन्योर्वर्धेन किल रहिता । अक्षांशोन्नतिकोट्योर्ज्याभ्यां भक्ता भवेद्दिगंशज्या ॥” इति वचनात् दिगंशा अपि तावन्त एव भवन्तीति प्रमाणीक्रियते । अतः सविता क्षणं मध्याह्ने विरमतीति सिद्धम् । सिद्धान्तशिरोमणावप्ययमेव नयः । तदेव स्फुटम् यथा-