सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
विक्रमोर्वशीये

 विदूषकः-सपीडा क्खु जादा तत्तभोदी कासिराअदुहिदा। [सपीडा खलु जाता तत्रभवती काशीराजदुहिता ।]

 राजा-(निरीक्ष्य ) रक्ष्यते भवता रहस्यनिक्षेपः ?

 विदूषकः-(आत्मगतम्) वञ्चिदोम्हि दासीए णिउणिआए, अण्णधा कधं एव्वं पुच्छदि वअस्सो। [ वञ्चितोऽस्मि दास्या निपुणिकया, अन्यथा कथमेवं पृच्छति वयस्यः।]

 राजा-किं भवांस्तूष्णीमास्ते ।

 विदूषकः-भो! एव्वं मए जीहा संजन्तिदा जेण भवदो विणत्थि पडिवअणम् । [भोः ! एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनम् ।]


देव्या स्वल्पमुन्नीयमानत्वादुद्भेदात्मकं प्रतिमुखम् । तल्लक्षणं वक्ष्यते । अत्र बिन्दुः- यल्लक्षणं यथाह मुनिः “प्रयोजनानां विच्छेदे यदविच्छेदकारणम् । यावत्समाप्तिबन्धस्य स बिन्दुरिति संज्ञितः।" इति ॥ अप्रतिरूपरूपायाः उर्वश्याः कान्तिं वीक्ष्य विद्धचेतसो राज्ञः फलप्राप्तिं अपश्यतः तल्लाभाय प्रयत्नप्रक्रमो भावी । इयञ्चार्या जातिः॥२॥

 विदूषकः-तत्रभवती काशीराजदुहिता तव महिषी सपीडा खलु जाता सचिन्ता जाता।

 राजा-(निरीक्ष्य-विदूषकं प्रति सविस्मयं विलोक्य) भवता रहस्यमेव निक्षेपः रहस्यरूपन्यासस्तु रक्ष्यते । अपि नाम त्वया मया त्वयि न्यासीकृतं मम रहस्यं रक्ष्यते ? रहस्यं तु भवता गोप्यते इति विश्वसिमि-इति भावः ।

 विदूषकः-(आत्मगतम् मनसि ) दास्या निपुणिकया वञ्चितोऽस्मि यतः तया मत्तः रहस्यम् ज्ञातम् । राज्ञा महिषी उर्वशीनाम्ना संबुद्धा इति मिथ्यैव उक्त्वा विश्वासमुत्पाद्य रहस्यगोपने तयाहं वञ्चितः। अन्यथा यदि एवं न स्यात्तदा कथं वयस्यः एवं 'रक्ष्यते रहस्यनिक्षेपः' इति प्रष्टुमर्हति । यदि तेनैव समुद्घाटितञ्चेद्रहस्यं न पृष्टं भवेदीदृशम् । उत्तरवाक्यम् 'वञ्चितोऽस्मी'त्यनुमितौ हेतुः।

 राजा-किं भवान् तूष्णीं आस्ते । त्वं तु निर्वचनोऽसि न वदसीति भावः । मौनं धृतवानसि । “मौने तु तूष्णीं तूष्णीकाम्" इत्यमरः ।

 विदूषकः-भोः इति राज्ञः सम्बोधनम् । मया एवं जिह्वा संयन्त्रिता नियमिता येन भवतोऽपि प्रतिवचनमुत्तरं नास्ति न दीयते । अत्यन्तमेव रहस्योद्घाटने जिह्वा निरुद्धा इति सारः। उपहासोऽयम् निजापराधगोपनात्मकः ।