पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
विक्रमोर्वशीये

 सूतः-आयुष्मन् !

  अदः सुरेन्द्रस्य कृतापराधान्
   प्रक्षिप्य दैत्यांल्लवणाम्बुराशौ।
  वायव्यमस्त्रं शरधि पुनस्ते
   महोरगः श्वभ्रमिव प्रविष्टम् ॥ १९॥

 राजा-तेन ह्युपश्लेषय रथम् , यावदारोहामि ।

(सूतस्तथा करोति । राजा नाट्येन रथमारोहति ।)

 उर्वशी-( सस्पृहं राजानमवलोकयन्ती) अवि णाम पुणो वि उअआरिणं एदं पेक्खिस्सम् । [ अपि नाम पुनरपि. उपकारिणमेतं प्रेक्षिष्ये ।]


यन्ती सनिश्वासं शोकजनितदीर्घाश्वासमुद्गिरन्ती सखीजनमुत्पतन्तमाकाशमार्गे उपर्युपरि गच्छन्तं पश्यति ।)

 सूतः-आयुष्मन् इति राज्ञः सम्बोधनम् । अद इतिः-अदः सुरेन्द्रस्य देवेन्द्रस्य कृतापराधान् अपकारिणः दैत्यान् असुरान् लवणाम्बुराशौ क्षारसमुद्रे प्रक्षिप्य निहत्य क्षिप्त्वा ते वायव्यं वायुदेवताकमस्त्रं पुनः शरधिं निषङ्गं तूणीरं वा प्रविष्टम् । स्वकार्यं संसाध्य स्वस्थाने प्रविष्टमित्यर्थः । यथा महोरगः कृष्णसर्पः श्वभ्रं बिलं रन्ध्रं वा प्रविशति । यथा कृष्णसर्पः किञ्चित्कालं बहिरागत्य पुनः स्वबिलं प्रविशति तथैव तवेदं वायुदेवताधिष्ठितमस्त्रं दैत्यान्नाशयित्वा पुनः स्वतूणीरं प्रविष्टम् इति भावः । वायुर्देवतास्येति वायव्यम् "वायवृतुपित्रुषसो यत्" इति सूत्रेणात्र यत् प्रत्ययः । शराः धीयन्तेऽस्मिन्निति शरधिः । उरसा गच्छतीति उरगः सर्पः । श्वभ्रं रन्ध्रम् “रन्ध्रं श्वभ्रं वपा शुषि"रित्यमरः । अनेन राज्ञः देवतोपकारित्वं, पराक्रमशालित्वं, वायुप्रभृतिबहुदेवताप्रसादनगृहीतशस्त्रास्त्रविद्याप्रौढत्वं, अनागसि अस्त्रोपयोगाकारित्वं, विवेकित्वं, दण्डनीयदण्डदातृत्वं, न्यायकर्तृकत्वं, गुणगणवत्त्वं च वस्तु व्यज्यते । अत्र चोपमालङ्कारः, अस्त्रस्योरगस्य च रन्ध्रप्रवेशसाधर्म्यात् । अत्रेन्द्रवज्रोपेन्द्रवज्रयोर्मेलनादुपजाति वृत्तम् ॥ १९ ॥

 राजा-सारथे ! तेन हि कार्यसमाप्तत्वेन रथमुपश्लेषय समीपमानीय स्थापय यावदहमधिरूढो भविष्यामि । अत्र वर्तमानसमीपे भविष्यत्यर्थे लट् ।

(सूतस्तथा करोति रथं समीपे समानयति राजा च नाट्येन तमधिरोहति ।)

 उर्वशी-(सस्पृहं साभिलाषं राजानमवलोकयन्ती).अपि सम्भावनायाम् । सम्भाव्यते किमिदं यत् पुनरपि उपकारिणं हितकारिणमेनं प्रेक्षिष्ये । पुनरप्यावयोः संयोगो भविष्यति किमिति । अनेन तस्या विरहखिन्नत्वं सूच्यते, पूर्वरागश्च व्यज्यते। . .