चित्रलेखा-आम् , दुम्मोआ विअ मे पडिहादी । तहा वि मोआविस्सं दाव । [आम् , दुर्मोच्येव प्रतिभाति, तथापि मोचयिष्यामि तावत् ।]
उर्वशी-(स्मितं कृत्वा) पिअसहि, सुमरेहि क्खु एदं अत्तणो वअणम् । [ प्रियसखि ! स्मर खल्वेतदात्मनो वचनम् ।]
राजा-(स्वगतम्)
प्रियमाचरितं लते त्वया मे
गमनेऽस्याः क्षणविघ्नमाचरन्त्या ।
यदियं पुनरप्यपाङ्गनेत्रा
परिवृत्तार्धमुखी मया हि दृष्टा ॥ १८ ॥
(चित्रलेखा मोचयति । उर्वशी राजानमालोकयन्ती सनिःश्वासं सखीजन- मुत्पतन्तं पश्यति ।)
चित्रलेखा-आम् । इयमेकावली दुर्मोच्या सौकर्येण मोचयितुमशक्या इव प्रतिभाति दृश्यते । तथापि मोचयिष्यामि प्रयत्नं करोमीत्यर्थः ।
उर्वशी-(स्मितमीषद्हास्यम् कृत्वा) प्रियसखि ! त्वं स्मर ते वचनम् । यदधुना त्वया प्रोक्तम् तदवधारय । अत्रोर्वशी राजनि दुर्मोच्यानात्मनो रतिं सखीं गमयति ।
राजा-(स्वगतम्-आत्मन्येवाह ) प्रियमिति-हे लते ! अस्या उर्वश्याः गमने क्षणविघ्नं क्षणपर्यन्तं तदीयैकावली निरोधजनितं विघ्नमन्तरायं आचरन्त्या कुर्वत्या त्वया मे मदीयं प्रियमाचरितं कान्तं कृतम् । यतः परिवृत्तं ईषद् पृष्ठतः कृतम् अर्धमुखं यस्याः, अतएव अपाङ्गनेत्रा अपाङ्गयुक्ते कटाक्षयुक्ते नेत्रे यस्याः सा उर्वशी मया पुनरपि दृष्टा अवलोकिता। यदि त्वं न न्यरोत्स्यस्तदीयैकावलीं, सा नात्र स्थिताभविष्यदतस्त्वया उपकृतोऽस्मीति भावः । यतः सा मया पुनरप्येकवारं सभ्रूकटाक्षं दृष्टेति त्वया मे प्रियमनुष्ठितम् । अथवा अपाङ्गनेत्रा अपाङ्गो मदनस्तदुत्पादके नेत्रे यस्याः सा इत्यपाङ्गनेत्रा । “अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च” इति विश्वः । परिवृत्तमीषत्तिर्यक्कृतम् । अत्र परिवृत्तार्धमुखवत्त्वं अपाङ्गनेत्रत्वे कारणं तेन च हेतुहेतुमद्भावात्काव्यलिङ्गमलङ्कारः । अपरश्च नायके नायिकागतौत्सुक्यादिभावोद्भावाद् भावोदयध्वनिः । यदुक्तं दर्पणे "भावस्य चोदये सन्धौ मिश्रत्वे च तदाख्यका इति ।" अपि चात्र समुत्सुकस्य भाविविरहखिन्नस्य नायकस्य कौतुकप्रायमिदं वचः परिभावनाख्यं सन्ध्यङ्गं समुत्थापयति यदुक्तं---- "कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ।" औपच्छन्दसकं वृत्तम् ॥ १८ ॥
(चित्रलेखा लताविटपलग्नामेकावलीं मोचयति-उर्वशी च राजानमालोक-