उर्वशी- (आत्मगतम्) अमिअं क्खु दे वअणम् [ अमृतं खलु ते वचनम् ] अहवा चन्दादो अमिअं त्ति किं अञ्चरिअम् [ अथवा चन्द्रादमृतमिति किमाश्चर्यम् ] ( प्रकाशम् ) अदो एव्व मे पेक्खिदुं तुवरदि हिअअम् । [ अतएव मे प्रेक्षितुं त्वरते हृदयम् । ]
राजा- (हस्तेन दर्शयन् )
एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः ।
उत्सुकनयना लोकाश्चन्द्रमिवोपप्लवान्मुक्तम् ॥ १२ ॥
शोकातिरेको भवति यदा कियान् खेदस्तदा तासां सखीनां चेतसि भविष्यति, अत्यन्तमेव भवेदित्यर्थः । "यदृच्छा स्वैरिता" इत्यमरः । 'सकृत्सहैकवारयो'रित्यजयः । "स्यादवन्धः फलेग्रहिः" सफल इत्यर्थः । सौहृदम्- शोभनं सहानुभूतिसमेतं हृदयं यस्य सः सुहृद् मित्रं तस्य भावः सौहृदम् । अत्र हि प्रथमद्वितीयपादान्ताक्षरयोः साम्यादन्त्यानुप्रासालङ्कारः 'व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु । आवर्त्यतेऽन्त्ययोज्यवादन्त्यानुप्रास एव तत्' इति दर्पणकारः । तथा च नेत्राणामवन्ध्यवसिद्धौ उर्वश्या नयनपथगामित्वस्य हेतुत्वम् तस्माच्च काव्यलिङ्गमलङ्कारः । तयोश्च निरपेक्षतया चमत्काराधायित्वात् संसृष्टिः । अपि च यतः यः कोऽपि पान्थस्तव दर्शनान्तरं विरहव्याकुलो भवेत्तदा का कथा आर्द्रसौहृदस्य सखीसमूहस्येति अर्थापत्तिरलङ्कारः, अर्थात्तस्यापि परमव्याकुलत्वम् । यदुक्तम् 'दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते' इति द्वितीया संसृष्टिः, पुनश्च संसृष्टिद्वयस्य संसृष्टिः । अनेनोर्वश्याः रमणीयत्वं प्रियप्रकृतित्वं हृद्यत्वं च व्यज्यते । प्रसादो गुणः । वंशस्थं वृत्तम् । लक्षणं तु 'जतौ तु वंशस्थमुदीरितं जरौ ॥ ११ ॥
उर्वशी- आत्मगतम् मनस्येवं चिन्तयामास । ते वचनमुक्तिः अमृतमेव । अत्र रूपकालङ्कृतिस्तया च तस्य वचनमाधुर्यं ध्वन्यते । अथवेति विकल्पः । अथवा चन्द्रादमृतं निःसरेदिति किं नाम आश्चर्यम् यतः चन्द्रस्तु सुधानिधिरेव । अनेन वचनं मुखान्निःसृतम्, वचनं चामृतं, तेन तस्य मुखं चन्द्र इति सूच्यते तेनाह्लादकत्वं च व्यज्यते । अत्र रूपकातिशयोक्तिरलङ्कारः । अपि चायं महाराजः चन्द्रवंशसमुद्भवः अस्तीति द्योतितम् । सत्कुलीनत्वादमृतं वाहयितुं समर्थ इति गम्यते । प्रकाशम् ‘सर्वश्राव्यं प्रकाशं स्या'दिति दर्पणे । पूर्वोक्तं मनस्यैव कल्पयित्वेदानीं राजानं प्रत्युत्तरयत्युर्वशी प्रकाशम्- अतएव यतः सखीजनः समुत्सुको भवेदित्यनेनैव हेतुना मे हृदयम् प्रेक्षितुं तम् द्रष्टुं त्वरते उत्सुकम् वर्तते ।
राजा- ( हस्तेन अङ्गुल्या सखीजनं दर्शयन् ) प्राहेति शेषः ।
एता इति- हे सुतनु सुन्दरि ! एताः पुरोदृश्यमानाः त्वां द्रष्टुं उत्कण्ठितानि नयनानि यासां ताः हेमकूटगता हेमशिखरमधिरूढास्ते सख्यः ते मुखं