पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
विक्रमोर्वशीये

 उर्वशी–हला चित्तलेहे ! सहीअणो कहिं क्खु भवे ? [हला चित्रलेखे ! सखीजनः कुत्र खलु भवेत् ? ]

 चित्रलेखा-सहि ! अभअप्पदाई महाराओ जाणादि। [सखि ! अभयप्रदायी महाराजो जानाति । ]

 राजा-(उर्वशीं विलोक्य ) महति विपादे वर्तते सखीजनः । पश्यतु भवती-

यदृच्छया त्वं सकृदप्यवन्ध्ययोः
 पथि स्थिता सुन्दरि ! यस्य नेत्रयोः ।
त्वया विना सोऽपि समुत्सुको भवे-
 त्सखीजनस्ते किमुतार्द्रसौहृदः ॥ ११ ॥


कारणे । स्रष्टा च निमित्तकारणम् । तदा सामान्यतस्तु स्रष्टरि वेदाभ्यासजडेऽपि कार्यरूपायामुर्वश्यां तद्गुणायोगः । किंत्वत्र कविगतप्रजापतिविषयकसन्देहेन चन्द्रत्वादौ च प्रजापतित्वारोपेणेदमेव द्योत्यते यदस्याः असाधारणी एव सृष्टिर्यस्यां निमित्तकारणगुणा अपि कार्ये प्रभवन्ति, अनेन तस्या रूपस्यालौकिकवैलक्षण्यं व्यक्तम् । एतादृगुपयोगस्तु कविभिः सम्मानितः, यथोक्तं कविकुलमुकुटालङ्कारहीरैः श्रीहर्षकवीन्द्रैः स्वीये निसर्गोज्ज्वले नैषधीयचरिते द्वितीयसर्गे दमयन्तीकुचवर्णने द्वात्रिंशत्तमे पद्ये "कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः । स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रममातनोति यत् ।" इति- अत्र च नायिकां प्रेक्ष्य नायकगतः पूर्वरागो ध्वन्यते । वृत्तं च शार्दूलविक्रीडितम् । लक्षणं तूक्तं प्रागेव ॥ १० ॥

 उर्वशी- हला चित्रलेखे- अस्माकं सखीजनः सहचर्यः कुत्र कस्मिन् स्थाने भवेत् । खलु इति प्रश्ने।

 चित्रलेखा- अभयप्रदायी अभयं ददातीति भयाद्रक्षको महाराजो विक्रमो जानाति क्वाऽस्तेऽस्माकं सखीसमूह इति ।

 राजा -उर्वशीं विलोक्य तामुद्दिश्याहेत्यर्थः । सखीजनः महति विषादे शोके वर्तते । पश्यतु भवती जानात्वेतत्- पश्यतेः कर्मत्वेन आगामी श्लोकोऽन्वेतव्यः । यदृच्छयेति--- हे सुन्दरि हृदयद्राविरूपे मनोहारिणि ! यदृच्छया अनायासेनाकस्मिकतया सकृदपि एकमेववारं यस्यावन्ध्ययोः सफलयोर्नेत्रयोः पथि त्वं स्थिता समायाता सोऽपि जनः त्वया विना तव विरहे समुत्सुकः उत्कण्ठितः व्याकुलो वा भवेत् किमुत किं तदा आर्द्रसौहृदः रात्रिन्दिवं सहवासेन रसार्द्रं सौहृदं मैत्री यस्यैतादृशः सखीजनः । यः कोऽपि पुरुषस्त्वामेकवारमेवाकस्मात् पश्यति सोऽपि त्वद्विरहेण सशोकः स्यात् तदा किमाश्चर्यं यदत्यन्तप्रियतमस्ते सखीवृन्दः शोकाविष्टचेताः भवेत् । अज्ञातत्वत्सहवासस्यापि