सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
प्रथमोऽङ्कः ।

 पद्येऽस्मिन् ससन्देहालङ्कारः । तल्लक्षणं यथा रसगङ्गाधरे 'सादृश्यमूला भासमानविरोधका समबला नानाकोट्यवगाहिनी धी रमणीया ससन्देहालङ्कृतिः' । अत्र हि अप्पयदीक्षितैरित्थं प्रतिपादितम्- यदिह चन्द्रादीनां संशयधर्मिणामेवानेकत्वम् तथा च वर्णनीयकामिनीविधातृत्वं तावदेकमेव, ततः क्वास्ति नैककोट्यवगाहिनी धीरतः सन्देहलक्षणस्येहाव्याप्तिः । तन्न युक्तम् । अत्र अस्याः कामिन्याः सर्गविधौ यः प्रजापतिरभूत् स किं चन्द्रः, उत मदनः, उत वसन्तो नु इति संशयः प्रजापतिधर्मिकः सन् चन्द्रत्वादिनानाकोटिक एवास्ति इति कुत्राव्याप्तिः । न चात्र चन्द्रादिधर्मिकः संशयो वक्तुमुचितम् । एवं कृते विधातुरत्र प्रथमोद्देश्यत्वहानिः । अतः अत्र ससन्देहालङ्कारोऽस्त्येव । पुनश्च यत्र यत्र विलक्षणरूपत्वं तत्र तत्र तपस्विसंभवत्वं न, यथा शकुन्तलादाविति व्याप्तेः नेयमुर्वशी तपस्विसम्भवा विलक्षणरूपत्वादित्यनुमानसद्भावात् इहानुमानालङ्कारः, यल्लक्षणं तु काव्यप्रकाशे- "अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः ।" अपि च यतः श्लोकस्यास्योत्तरार्धमनुमितौ हेतुः, यथा- कथं नेयं तपस्विसंभवा, तपस्विनः ईदृशरूपनिर्माणसामर्थ्याभावात्, तेनात्र काव्यलिङ्गमलङ्कारः, यदुक्तं 'काव्यलिङ्गं हेतोर्वाक्यपदार्थता' । काव्यलिङ्गानुमानयोः परस्परमङ्गाङ्गिभावत्वेनेह सङ्करालङ्कारः । तल्लक्षणं यथा दर्पणे 'यद्येत एवालङ्काराः परस्परविमिश्रिताः । तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा । अङ्गाङ्गित्वेऽलंकृतीनां तद्वदेकाश्रयस्थितौ । सन्दिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः' । इत्थं काव्यलिङ्गमलङ्कारोऽनुमानमुत्थापयतीत्यङ्गाङ्गिभावसङ्करः ' । पुनश्च ससन्देहस्य च काव्यालिङ्गानुमानयोश्च परस्परं निरपेक्षतया चमत्कारकारित्वात् संसृष्टिः 'मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते' इति दर्पणोक्तेः । तथा चात्रातिशयोक्तिरलङ्कारः । यदुक्तं चित्रमीमांसायाम्- 'विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कविप्रोढोक्तिजीविता ॥' तत्र चेह रूपविशेषस्यापि पुराणप्रजापतिसृष्टिसम्बन्धेऽप्यसंबन्धख्यापनादसम्बन्धातिशयोक्तिः । न च शृङ्गारैकरसः इत्यत्र साक्षात् शृङ्गारपदेन शृङ्गारावबोधेन ईदृगुपयोगस्य कविभिरनादृतत्वाद्दोषोऽयमिति वाच्यम् । यतः शृङ्गारपदेनात्र नायकगतभाव्यरसस्यायोगः, अत्र तत्पदेन रसराजनामावबोध एव केवलम् इति नायं दोषः । अत्रैतत्त्ववधेयं यत्कार्यकारणभावे यस्य कस्यापि कार्यस्य सद्भावे कारणत्रैविध्यं भवति समवाय्यसमवायिनिमित्तभेदात् । 'यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्- यथा तन्तवः पटस्य'; 'कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम्- यथा तन्तुरूपं पटरूपस्य; तदुभयभिन्नं कारणं निमित्तकारणम्- यथा तुरीवेमादिकं तन्तुवायश्च पटस्य' इति तर्कसङ्ग्रहे। अयन्तु साधारण एव नियमः यदसमवायिसमवायिकारणयोर्गुणाः कार्ये समायान्ति न तावन्निमित्तकारणस्य । यथा यदि स्युस्तन्तवः श्यामाः पीता वा तदा पटोऽपि श्यामः पीतो वा भवितुमर्हति, किन्तु यदि स्यात्पटकारः गौरः श्यामो वा न कदापि भविष्यति पटो गौरः श्यामो वा । अतो निमित्तकारणगुणा न समायान्ति कार्ये । इति साधारणो नियमः । इह उर्वशीरूपं कार्यम् । अलौकिकसौन्दर्यादिकं समवाय्यसमवायि-