पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
विक्रमोर्वशीये

भोगा दुःखयोनय एव ते' इति हेतोः वेदविद्भिः ऐहिकेषु इन्द्रियसन्निकर्षजन्येषु भोगेषु नितान्तं तिरस्कारः क्रियते । तेन चाज्ञातविषयतत्त्वा वैदिकाः अरसिका सहृदयतावञ्चिता भवन्ति । एतादृक्संस्पर्शजन्यसुखपराङ्मुखानां वेदानां 'अभ्यासः' । अत्रापि च पुनः विहाय पठनादिशब्दोपयोगमभ्यासपदाङ्गीकारेण 'अभिपूर्वकास् धातोः' घञन्तव्युत्पत्त्या, आस्धातोश्च उपवेशनरूपार्थकत्वात् उपवेशनस्य च अन्यस्थलगमननिवृत्तिपूर्वकं स्वीकृतस्थले एव निश्चलतया स्थानरूपार्थकत्वात् ज्ञानमार्गातिरिक्तविषयेषु चित्तवृत्तिं नितान्तं निरुध्य अवधूतवनिताद्यनेकविलक्षणैहिकसुखत्वेन तेषु वेदेषु निश्चलतया अभ्यासः स्थितिः तेन चाभ्यासेन 'जडः' जडपदस्य च घातनार्थकजल्धातोः अच्करणेन संभवः तेन घातितसहृदयत्वं रसिकताविषयकात्यन्तिकमान्द्यं च द्योत्यते तस्मिन् प्रजापतौ । न चात्र विषयव्यावृत्तकौतूहलेतिपदप्रदानेन शब्दमर्यादयैवैतत्सर्वमेवागच्छतीति वाच्यवृत्त्यालिङ्गितत्वात्तस्य व्यङ्ग्यत्वं नेति वाच्यम् । यतः विषयव्यावृत्तकौतूहलपदाङ्गीकारेण विषयेषु उत्साहोऽपि नष्ट इति सूच्यते । तत्र च वेदाभ्यासजडपदेन विषयेभ्यश्चित्तवृत्तिनिरोधजन्यरसिकतागतमान्द्यमेवादर्शि कविना न तावत् विषयविषयकोत्साहहीनत्वं विषयव्यावृत्तकौतूहलपदवाच्यम् । यतः सर्वोपनिषत्सारभूतायां भगवन्मुखपङ्कजनिःसृतायां गीतायां प्रतिपादितम् "विषया विनिवर्तन्ते निराहारस्य देहिनः- (किन्तु) रसवर्जम्- " विषयेभ्यो वृत्तिनिरोधेन विषया विनिवर्तन्ते किन्तु विषयार्थरसवर्जम् । रसो रागोत्साहश्च योगबलेन यथाकथञ्चित् निरुद्धायामपि चित्तवृत्तौ 'यदीदं भवेत्तदा सम्यक् स्यादिति' विषयानुरागस्तु वर्तते एव; तन्निरासार्थं कविना पृथक्तया विषयव्यावृत्तकौतूहलेतिपदग्रहणं कृतम् । वेदाभ्यासजडपदव्यङ्ग्यार्थमेव विशिनष्टि विषयव्यावृत्तकौतूहलपदं न तमेवार्थ सूचयति, उभाभ्यां रससहितविषयार्थनिवृत्तिपूर्वकं मान्द्यं व्यज्यते । अतः विषयव्यावृत्तकौतूहलपदे सत्यपि वेदाभ्यासजडपदस्य व्यंजकत्वे न कापि क्षतिः । चारुरुचिरपदानि तिरस्कृत्य मनोहरपददानेन 'तद्दर्शनान्तरं तदतिरिक्तपदार्थेषु मनो न लगति सर्वत्र तदेव दृश्यते' इत्यसूचि, तेन च तदीयाद्वितीयसौन्दर्यशालित्वं व्यक्तीकृतम् । इदम्पदप्रदानेन च परमवैलक्षण्यं गम्यते । अपि च रूपपदन्यासेन रूप्यते लक्ष्यते अन्यान् विहाय दृश्यते सदैव चिन्त्यते ध्यायते इति रूपम् इति विलक्षणार्थावबोधः । वेदाभ्यासजडविषयव्यावृत्तकौतूहलेतिपदद्वन्द्वग्रहणेनाप्यसंतुष्टः कविर्मन्दमतीनां कृते स्पष्टतया विवक्षितार्थबोधनार्थं तमेव विधातारं अहृदयत्वेन विशेषयति पुराणपदेन । पुराणस्तावत्पुराभवः। पुराभवानां नवनवोन्मेषशालिशक्त्यभावश्च । सहृदयैः साहित्याकूपारपारीणैः कविभिः एक एव पदार्थः विलक्षणत्वेन प्रतिक्षणं नवो नवो दृश्यते रसास्वादेनात्मा चानुगृह्यते । एतादृक्शक्तिमत्त्वं न कदाप्याश्रयितुमर्हति पुराणे । एतद्विशेषार्थविज्ञापनाय पुराणपदनिवेशः । पुनरप्यसन्तुष्टः कविशेखरः मुनिपदं ददत् तस्य मौनव्रतधारित्वं क्रियाहीनत्वं ईदृशरूपविशेषनिर्माणकलाकौशलवञ्चितत्वं निर्माणे चामार्मिकत्वमबोधयत्- इति दिक् ।