पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
विक्रमोर्वशीये

(उर्वशी साभिलाषं पश्यति ।)

 चित्रलेखा-हला ! किं पेक्खसि ? [हला ! किं प्रेक्षसे ?]

 उर्वशी–णं समदुक्खगदो पीवीअदि लोअणेहिं । [ननु समदुःखगतः पीयते लोचनाभ्याम् ।]

 चित्रलेखा-(सस्मितम् ) अई को ? [अयि कः ?]

 उर्वशी–णं पणईअणो। [ननु प्रणयिजनः ।]

 रम्भा-(सहर्षमवलोक्य) हला ! चित्तलेहादुदीअं पिअसही उव्वसीं गेण्हिअ विसाहासहिदो विअ भअवं सोमो समुवट्ठिदो राएसी दीसदी । [हला! चित्रलेखाद्वितीयां प्रियसखीमुर्वशीं गृहीत्वा विशाखासहित इव भगवान् सोमः समुपस्थितो राजर्षिर्दृश्यते ।]


पश्यन्ति (यथा) उत्सुकनयना लोकाः उपप्लवात् उपरागान्मुक्तं चन्द्रमिव । यथा चन्द्रग्रहणे राहुणा ग्रस्तमुक्तं चन्द्रं लोकाः औत्सुक्येन प्रेक्षन्ते तथैवैतास्ते सख्यस्ते मुखं हेमकूटे स्थिताः सत्यः पश्यन्तीति भावः । अत्रोपमालङ्कारः । तेन चन्द्रस्य मुखस्य च साधर्म्य प्रदर्शितम् । उपप्लवपदप्रदानेन केशिनि राहुत्वारोपः सखीनाञ्च प्रेमातिशयवत्त्वं व्यक्तम् । इयमार्याजातिः "यस्याः प्रथमे पादे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पश्चदश सार्या" इति श्रुतबोधे लक्षणम् ॥ १२ ॥

(उर्वशी साभिलाषं सखीजनसमागमसमुत्सुका पश्यति ।)

 चित्रलेखा-हला इति स्निग्धसम्बोधनम् , किं प्रेक्षसे किं पश्यसि !

 उर्वशी-ननु समदुःखगताः समानतया मया सार्धं दुःखभागिनः जनाः प्रेक्ष्यन्ते । पीयते लोचनाभ्याम्-प्रेक्ष्यते इत्यर्थः ।

 चित्रलेखा-(सस्मितम् ईषद् हास्येन) अयि कः ? कः समदुःखभागी ?

 उर्वशी--ननु प्रणयिजनः प्रेमी जनः सखीजनः ।

 रम्भा-(सहर्ष आनन्देनावलोक्य) सखि ! चित्रलेखया द्वितीयां चित्रलेखाद्वितीयां चित्रलेखासहितां प्रियसखीमुर्वशीं गृहीत्वा समुपस्थितः राजर्षिर्विक्रमस्तथा भाति यथा विशाखानक्षत्रविशेषेण समलङ्कृतो भगवान् सोमः चन्द्र एव भवेत् । यथा विशाखानक्षत्रस्थश्चन्द्रः शोभते तथैव सचित्रलेखयोर्वश्या सह स राजा शोभते इति सम्भाव्यते । अत्रोर्वशीसमेते राज्ञि विशाखासहितस्य सोमस्य सम्भावनायाः चमत्कारकारित्वादुत्प्रेक्षालङ्कारः 'सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' । इति लक्षणात् ।