पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
विक्रमोर्वशीये

 राजा- अपि ज्ञायते कतमेन दिग्विभागेन गतः स जाल्मः ?

 अप्सरसः- इसाणीए दिसाए । [ऐशान्या दिशा।]

 राजा- तेन हि मुच्यतां विषादः । यतिष्ये वः सखीप्रत्यानयनाय ।

 अप्सरस:- सरिसं एदं सोमवंससंभवस्स । [सदृशमेतत्सोमवंशसम्भवस्य ।]

 राजा - क पुनर्मां भवत्यः प्रतिपालयिष्यन्ति ।


इति बन्दिग्राहम्-उपमाने कर्मणि णमुल । अत्र रूपकालङ्कारः अत्र प्रहरणस्य च तस्यास्तादात्म्याद्रूपकम् । तथा तस्याश्च प्रत्यादेशस्याभेदेन, सर्गालङ्कारस्य च ताद्रूप्याद्रूपकालङ्कारः -यदुक्तं कुवलयानन्दे-"विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तत्"-एकस्यैव विषयिणः उर्वश्याः नैकविषयतादात्म्यसम्बन्धात् मालारूपकमिदम् ।

 राजा- अपि प्रश्नार्थे । अपि ज्ञायते, ज्ञायते किं भवतीभिः कतमेन केन दिग्विभागेन दिशः देशेन गतः पलायितः स जाल्मः कपटी दुष्टः । कस्यां दिशि गतः स दुष्टः उर्वशीं गृहीत्वा इति ज्ञायते किमित्यर्थः । कतमेनेति, किंशब्दात् डतमप्रत्ययः “जाल्मस्तु पामरे असमीक्ष्यकारिणि" इति हैमः । जालं करोतीति बाहुलकान्मः । “नेड् वशि कृति” (७/२/८) सूत्रेण । अपि शब्दश्चात्र प्रश्नकारी यदुक्तम् “अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये । तथा युक्तपदार्थे च कामचारक्रियासु च" इति विश्वः।

 अप्सरसा- ऐशान्या उदीचीप्राचीदिशोरन्तरगतेन कोणेन गतः पलायितः स दुष्ट इति।

 राजा- तेनेति-तेन हि अधुना विषादः शोकः मुच्यतां परित्यज्यताम् शोकमपकुर्वताम् इत्यर्थः । वः युष्माकं सख्याः प्रत्यानयनाय तस्माद्दुष्टात् पुनरानयनाय यतिष्ये यथासम्भवं प्रयत्नं करिष्यामि ।

 अप्सरस:- सरिसेति-एतत् अस्माकं प्रार्थनायां विचारं विधाय सखीप्रत्यानयनाङ्गीकाररूपमिदं कार्यम्, सोमवंशे चन्द्रवंशे संभवः उत्पत्तिर्यस्य यद्वा संभवति अस्मादिति सम्भवः सोमवंशः सम्भवः यस्य एतादृशः भवतः सदृशं योग्यमेव । कार्यमेतत्स्वकुलानुरूपमेवेति तात्पर्यम् ।

 राजा- क्वेति-क्व कस्मिन् स्थाने भवत्यः यूयम् माम् प्रतिपालयिष्यन्ति सम्भावयिष्यन्ति । मदागमनवेलायाः प्रतीक्षणं कुत्र करिष्यन्ति भवत्यः इति पृच्छति । कुत्र भवत्यो मिलिष्यन्ति यत्राहं तां गृहीत्वा आगच्छेयमिति प्रश्नः ।