पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
प्रथमोऽङ्कः।

 रम्भा- असुरावलेपादो । [अमुरावलेपतः।]

 राजा- किं पुनरमुरावलेपेन भवतीनामपराद्धम् ।

 रम्भा - सुणादु महाराओ । जा तवोविसेससङ्किदस्स सुउमारं पहअणं महेन्दस्स, पच्चादेसो रूवगव्विदाए सिरिगोरिए, अलंकारो सग्गस्स, सा णो पिअसही उव्वसी कुबेरभवणादो णिवत्तमाणा केणावि दाणवेण चित्तलेहादुदीआ अद्धपथं ज्जेब वन्दिग्गाहं गिहिदा [ शृणोतु महाराजः । या तपोविशेषशङ्कितस्य सुकुमारं प्रहरणं महेन्द्रस्य, प्रत्यादेशो रूपगर्वितायाः श्रीर्गौर्याः, अलङ्कारः सर्गस्य, सा नः प्रियसखी उर्वशी कुवेरभवनान्निवर्तमाना केनापि दानवेन चित्रलेखाद्वितीया अर्धपथ एव बन्दिग्राहं गृहीता ।]


पुरूरवसं तदाख्यं माम् एत्य कथ्यताम् उच्यतां कुतः कस्माद् भयाद् भवत्यः परित्रातव्याः रक्षणीयाः । भगवतः सवितुः सेवां विधायागच्छते मह्यं भवद्भयकारणं निवेद्यतामित्यर्थः । सूर्योपस्थाननिवृत्तमिति विशेषणप्रदानेनोजस्विता सूचिता, चाहमाह्निकान्निवृत्तो भवत्कार्यकरणे सज्जोऽस्मि इत्यपि प्रदर्शितम् ।

 रम्भेति- तदाख्या अप्सरा । असुराणां दैत्यानां अवलेपतः गर्वात् परित्रातव्याः रक्षणीया वयमिति शेषः । अवलेपस्तु गर्वः “अवलेपस्तु दोषे स्याद्गर्वे लेपे च संगमे” इति विश्वः । अवलेपादो इत्यत्र “आदो दुह्य" इति सूत्रेण प्राकृते पञ्चम्यामादो इत्यादेशो भवतीति वररुचिः । “भीत्रार्थानां भयहेतुः' (१।४।२५) इति पञ्चमी।

 राजा-भवतीनां युष्माकं असुरावलेपेन दानवानां गर्वेण किं अपराद्धम् किं प्रतिकूलं कृतम् ?

 रम्भा- शृणोतु इति-दानवैरस्माकं किं प्रतिकूलमाचरितम् इति महाराजः शृणोतु ।जा इति- या तपोविशेषशङ्कितस्य उत्कटे तपसि वर्तमाने जने ममायमिन्द्रत्वं गृहीतुं कामयते इति शङ्कां कुर्वतो महेन्द्रस्य सुकुमारं कोमलं प्रहरणमायुधम् अस्ति- या उर्वशी तपोविभवानां तपोभङ्गाय महेन्द्रस्य कोमलमायुधमस्तीत्यर्थः । या च रूपगर्वितायाः अहं सर्वाभ्यः सुरूपास्मीति साभिमानायाः श्रीगौर्याः शोभाप्रचुरायाः पार्वत्याः प्रत्यादेशः निरसनमेव । पार्वत्या अभिमाननाशिनी इवं उर्वशी अस्तीत्यर्थः । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ।' इत्यमरः । या च उर्वशी सर्गस्याखिलसृष्टेः संसारस्य वा अलङ्कारः रत्नमेवास्ति । एतादृशी नः अस्माकं प्रियसखी उर्वशी कुबेरभवनात् शिवमुपस्थाय निवर्तमाना प्रत्यागच्छन्ती केनापि दानवेनासुरेण चित्रलेखाद्वितीया चित्रलेखानाम्न्या सख्या सहिता अर्धपथे मार्गमध्ये एव बन्दिग्राहं हठाद् गृहीता निगडय्य अपहृता । पथः अर्धम् इति अर्धपथः । चित्रलेखया एव द्वितीया इति चित्रलेखाद्वितीया । बन्दीव गृहीत्वा